Table of Contents

<<4-2-110 —- 4-2-112>>

4-2-111 कण्वाऽदिभ्यो गोत्रे

प्रथमावृत्तिः

TBD.

काशिका

गोत्रम् इह न प्रत्ययार्थो न च प्रकृतिविशेषणम्। तर्ह्येवं सम्बध्यते, कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितः, तदन्तेभ्य एव अण् प्रत्ययो भवति शैषिकः। छस्य अपवादः। काण्वाः छात्राः। गौकक्षाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1313 कण्वादिभ्यो गोत्रे। काण्व्यस्येति। कण्वस्य गोत्रापत्यं काण्व्यः। गर्गादियञ्। काण्व्यस्य छापवादोऽण्। `यस्येति चे'त्यकारलोपः। `आपत्यस्य चे'ति यकारलोपः। `काण्वा' इति रूपम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.