Table of Contents

<<4-2-110 —- 4-2-112>>

4-2-111 कण्वाऽदिभ्यो गोत्रे

प्रथमावृत्तिः

TBD.

काशिका

गोत्रम् इह न प्रत्ययार्थो न च प्रकृतिविशेषणम्। तर्ह्येवं सम्बध्यते, कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितः, तदन्तेभ्य एव अण् प्रत्ययो भवति शैषिकः। छस्य अपवादः। काण्वाः छात्राः। गौकक्षाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1313 कण्वादिभ्यो गोत्रे। काण्व्यस्येति। कण्वस्य गोत्रापत्यं काण्व्यः। गर्गादियञ्। काण्व्यस्य छापवादोऽण्। `यस्येति चे'त्यकारलोपः। `आपत्यस्य चे'ति यकारलोपः। `काण्वा' इति रूपम्।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.