Table of Contents

<<6-1-71 —- 6-1-73>>

6-1-72 संहितायाम्

प्रथमावृत्तिः

TBD.

काशिका

अधिकारो ऽयम् अनुदात्तं पदम् एकवर्जम् 6-1-158 इति यावत्। प्रागेतस्मत् सूत्रादित उत्तरं यद् वक्ष्यामः संहितायाम् इत्येवं तद् वेदितव्यम्। वक्ष्यति इको यणचि 6-1-77, दध्यत्र। मध्वत्र। संहितायाम् इति किम्? दधि अत्र। मधु अत्र।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

144 संहितायाम्। इत्यधिकृत्येति। `छे चेत्यादि विधीयते' इति शेषः। यद्यप्येतदिको यणचीत्यत्रैव वक्तव्यन्तथापि सूत्रक्रमानुरोधादिहोक्तम्।

तत्त्वबोधिनी

117 संहितायाम्। इत्यधिकृत्येति। एतच्च `इकोयणची'त्यत्रैव वक्तव्यमपि सूत्रक्रमानुरोधेनात्रोक्तम्।

Satishji's सूत्र-सूचिः

TBD.