Table of Contents

<<6-1-2 —- 6-1-4>>

6-1-3 न न्द्राः संयोगादयः

प्रथमावृत्तिः

TBD.

काशिका

द्वितीयस्य इति वर्तते। द्वितीयस्य एकाचो ऽवयवभूतानां न्द्राणां तदन्तर्भावात् प्राप्तं द्विर्वचनं प्रतिषिध्यते। नकारदकाररेफा द्वितीयैकाचो ऽवयवभूताः संयोगादयो न द्विरुद्यन्ते। उन्दिदिषति। अड्डिडिषति। अर्चिचिषति। न्द्राः इति किम्? ईचिक्षिषते। संयोगादयः इति किम्? प्राणिणिषति। अनितेः 8-4-19 उभौ साभ्यासस्य 8-4-21 इति णत्वम्। अजादेः इत्येव, दिद्रासति। केचिदजादेः इत्यपि पञ्चम्यन्तं कर्मधारयम् अनुवर्तयन्ति। तस्य प्रयोजनम्, इन्दिद्रीयिषति इति। अजादेरनन्तरत्वाभावाद् दकारो द्विरुच्यत एव, नकारो न द्विरुच्यते। इन्द्रम् इच्छति इति क्यच्। तदन्तातिन्द्रीयितुम् इच्छति इति सन्। बकारस्य अप्ययं प्रतिषेधो वक्तव्यः। उब्जिजिषति। यदा बकरोपध उब्जिरुपदिश्यते तदा अयं प्रतिषेधः। दकारोपधोपदेशे तु न वक्तव्यः। बत्वं तु दकारस्य विधातव्यम्। यकारपरस्य रेफस्य प्रतिषेधो न भवति इति वक्तव्यम्। अरार्यते। अर्तेः अट्यर्तिशूर्णोतीनाम् उपसंख्यानम् 7-4-82) इति यङ्। तत्र यङि च (*7,4.30 इति गुणः, ततो द्विर्वचनम्। ईर्ष्यतेस् तृतीयस्य द्वे भवत इति वक्तव्यम्। कस्य तृतीयस्य? केचिदाहुर् व्यञ्जनस्य इति। ईर्ष्यियिषति। अपरे पुनः तृतीयस्य एकाचः इति व्याचक्षते। ईर्ष्यिषिषति। कण्ड्वादीनां तृतीयस्य एअकाचो द्वे भवत इति वक्त्व्यम्। कण्डूयियिषति। असुयियिषति। वा नामधातूनां तृतीयस्य एकाच् द्वे भवत इति वक्तव्यम्। अश्वीयियिषति। अशिश्वीयिषति। अपर आह यथा इष्टं नामधातुष्विति वक्तव्यम्। पुपुत्रीयिषति। पुतित्रीयिषति। पुत्रीयियिषति। पुपुतित्रीयियिषति। पुत्रीयिषिषति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

603 अचः पराः संयोगादयो नदरा द्विर्न भवन्ति. नुशब्दस्य द्वित्वम्. ऊर्णुनाव. ऊर्णुनुवतुः. ऊर्णुनुवुः..

बालमनोरमा

277 न न्द्राः। `एकाचो द्वे प्रथमस्ये'त्यतो `द्वे' इत्यनुवर्तते। `अजादेर्द्वितीयस्ये'त्यतोऽजादेरिति। अञ्चासौ आदिश्चेति कर्मदारयात्पञ्चमी। न्, द्, र् एषां द्वन्द्वः। तदाह–अचः परा इति। ननु `णु'इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह– नुशब्दस्य द्वित्वमिति। णत्वस्येति। धातुपाठे `ऊर्णु' इति नकारस्य कृतणत्वस्य निर्देशः, द्वित्वे कर्तव्ये तस्य णत्वस्याऽसिद्धत्वादित्यर्थः। लिङ्गादिति। `उभौ साभ्यासस्ये'त्यस्याऽयमर्थः- - साभ्यासस्याऽनितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वं प्राप्नुत इति। प्राणिणदित्युदाहरणम्। `अत्र अनिते'रिति णत्वे कृते `पूर्वत्रासिद्धीयमद्विर्वचने' इति णत्वस्याऽसिद्धत्वाऽभावमाश्रित्य `णी'त्यस्य द्वित्वादेव खण्डद्वये मकारश्रवणसिद्धेः `उभौ साभ्यासस्ये'ति वचनं `पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्याऽनित्यतां गमयतीत्यर्थः। ऊर्णुनावेति। नुशब्दस्य द्वित्वे पूर्वनकारस्य `रषाभ्या'मिति णत्वम्। द्वितीयस्य तु `अट्कुप्वा'ङिति न णत्वम्, `उभौ साभ्यासस्ये'ति लिङ्गादेव।

तत्त्वबोधिनी

243 न न्द्राः। अजादेरिति वर्तते। स च कर्मधारयः। आदिग्रहणस्य तु प्रकृतेऽनुप्रयोगः। तदेतदाह– अचः परा इति। उन्दिदिषति। इन्दिदिषति। अड्डिडिषति। अर्चिचिषति। `न न्द्राः' इति किम् ?। ईक्षतेः सनि ईचिक्षिषते। संयोगादयः किम् ?। प्राणिणिशति। अरिरिषति। अचः पराः किम् ?। इन्द्रीयितुमिच्छतीति क्यजन्तात्सनि इन्दिद्रीयिषति। इह नकारस्य द्वित्वाऽभावेऽपि दकारस्तु द्विरुच्यत एव, अचः परत्वाऽभावात्। नुशब्दस्येति। उपदेशे नकारएव, णत्वं तु `रषाभ्या'मित्यनेनेति भावः। पूर्वत्रासिद्धीयमिति। अत्र द्विर्वचनशब्देन षाष्ठ\उfffदाष्टमिकं चोभयं गृह्रते। तत्र षाष्ठस्य ऊढिमाख्यत् औडिढदित्युदाहरणम्। आष्टमिकस्य तु द्रोग्धा,द्रोग्धा, द्रोढा- द्रोढेति। इह त्रिपादीस्थं घत्वढत्वादिकं द्विर्वचने सिद्धमेव। असिद्धत्वे तु त्रिपादीस्थकार्यात्पूर्वमेव द्रोहता इत्यस्य द्वित्वे, पश्चात् `वाह द्रुहे' ति घत्वढत्वयोः प्रवृत्तौ द्रोग्धा द्रोढेत्यपि द्विर्वचनं कदाचित्स्यान्न तु द्रोग्धा– द्रोग्धेति। समानजातीयस्यैव नियमेन द्विर्वचनं सिध्यति। किंच षट् सन्त इत्यत्र धस्य जश्त्वेन दकारे व्यक्तिभेदाद्दकारस्यापि द्वित्वं सुवचमेवेत्याहुः। अनित्यमित#इ। अत एव हतिशब्दस्य द्वित्वमौजिढदित्यपि नामधातुषु वक्ष्यति। उभौ साभ्यासस्येति। `अनिते' रित्यनेन णत्वं कृत्वा द्विर्वचने कृते प्राणिणत् प्राणिणिषतीति सिद्धमिति सूत्रमिदं ज्ञापकमित्यर्थः। एवं च `प्रणिनाये'त्यादौ द्वितीयस्य णत्वाऽभावः सिद्धः। विभाषोर्णोः। `गाङ्कुटादिभ्यः' इत्यतो ङिदिति, `विज इ' डित्यत इडिति चानुवर्तते इत्याशयेनाह-इडादिप्रत्यय इत्यादि। तेन गुणविकल्पे पक्षे उवङ्।

Satishji's सूत्र-सूचिः

TBD.