Table of Contents

<<6-1-11 —- 6-1-13>>

6-1-12 दाश्वान् साह्वान् मीड्वांश् च

प्रथमावृत्तिः

TBD.

काशिका

दाश्वान् साह्वान् मीड्वानित्येते शदाः छन्दसि भाषायाम् च अविशेषेण निपायने। दाश्वानिति दाशृ दाने इत्येतस्य धातोः क्वसौ अद्विर्वचनम् अनिट्त्वं च निपात्यते। दाश्वांसो दाशुषः सुतम् इति। साह्वानिति षह मर्षणे इत्येतस्य परस्मैपदम्, उपधादीर्घत्वम्, अद्विर्वचनम् अनिट्त्वं च निपातनात्। साह्वान् बलाहकः। मीड्वानिति मिह सेचने इत्येतस्य अद्विर्वचनम्, अनिट्त्वम्, उपधादीर्घत्वं ढत्वं च निपातनात्। मीड्वस्तोकाय तनयाय मृल। एकवचनम् अतन्त्रम्। कृञादीनां के द्वे भवत इति वक्तव्यम्। क्रियते ऽनेन इति चक्रम्। चिक्लिदम्। कृञः क्लिदेश्च घञर्थे कविधानम् इति कः प्रत्ययः। चरिचलिपतिवदीनां द्वित्वमच्याक् च अभ्यासस्य। चरादीनां धातूनाम् अपि प्रत्यये परतः द्वे भवतः। अभ्यासस्य आगागमो भवति। आगागमविधानसामर्थ्याच् च हलादिशेषो न भवति। हलादिशेषे हि सयागमस्य आदेशस्य च विशेषो न अस्ति। चराचरः। चलाचल। पतापतः। वचावदः। वेति वक्तव्यम्। तेन चरः पुरुषः, चलो रथः , पतं यानम्, वदो मनुष्यः इत्येवम् आदि सिद्धं भवति। हन्तेर् घत्वं च। हन्तेरचि प्रत्यये परतो द्वे भवतः, अभ्यासस्य च हकारस्य च घत्वम्, आक् चागमो भवति। परस्य अभ्यासाच् च 7-3-55 इति कुत्वम् घनाघनः क्षोभणश्चर्षणीनाम्। पाटेर् णिलुक् चोक् च दीर्घश्च अभ्यासस्य। पाटेरचि परतो द्वे भवतो णिलुक् च भवति। अभ्यासस्य च ऊगागमो दीर्घश्च भवति। पाटूपटः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.