Table of Contents

<<5-4-160 —- 6-1-2>>

6-1-1 एकाचो द्वे प्रथमस्य

प्रथमावृत्तिः

TBD.

काशिका

अधिकारो ऽयम्। एकाचः इति च, द्वे इति च, प्रथमस्य इति च त्रितयम् अधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः प्राक् संप्रसारणविधानात् तत्र एकाचः प्रथमस्य द्वे भवतः इत्येवं तद् वेदितव्यम्। वक्ष्यति लिटि धातोरनभ्यासस्य 6-1-8 इति। तत्र धातोरवयवयस्य अनभ्यासस्य प्रथमस्य एकाचो द्वे भवतः। जजागार। पपाच। इयाय। आर। एकाच इति बहुव्रीहिनिर्देशः। एको ऽच् यस्य सो ऽयम् एकाचित्यवयवेन विग्रहः। तत्र समुदायः समासार्थः। अभ्यन्तरश्च समुदाये ऽवयवो भवति इति साच्कस्य एव द्विर्वचनं भवति। एवं च पचित्यत्र येन एव अचा समुदायः एकाच्, तेना एव तदवयवो ऽच्छब्दः पशब्दश्च। तत्र पृथगवयवैकाच् न द्विरुच्यते, किं तर्हि, समुदायैकाजेव। तथा हि सकृच्छास्त्रप्रवृत्त्या सावयवः समुदायो ऽनुगृह्यते। पपाच इत्यत्र प्रथमत्वं व्यपदेशिवद्भावात्। इयाय, आर इत्यत्र एकाच्त्वम् अपि व्यपदेशिभावादेव। द्विःप्रयोगश्च द्विर्वचनम् इदम्। आवृत्तिसङ्ख्या हि द्वे इति विधीयते। तेन स एव शब्दो द्विरुचार्यते, न च शब्दान्तरं तस्य स्थाने विधीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

25 भूव्-अ इति स्थिते। एकाचः। अजादेः इत्यधिकृत्येति। षष्ठाध्यायारम्भे द्वे इमे सूत्रोते च न विधायके, अतिप्रसङ्गात्, किन्तु `ष्यङः संप्रसारण'मित्यतः प्रागनुवर्तेते एवेति भावः।

तत्त्वबोधिनी

874 आत्मयापनायेति। कालक्षेपाय, शरीरपक्षणाय वेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.