Table of Contents

<<6-1-134 —- 6-1-136>>

6-1-135 सुट् कात् पूर्वः

प्रथमावृत्तिः

TBD.

काशिका

अधिकारो ऽयम् पारस्करप्रभृतीनां च संज्ञायाम् 6-1-175 इति यावत्। इत उत्तरं यद् वक्ष्यामस्तत्र सुटिति , कात् पूर्वः इति च एतदधिकृतं वेदितव्यम्। वक्ष्यति सम्पर्युपेभ्यः करोतौभूषणे 6-1-137। संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्। कात् पूर्वग्रहणं सुटो ऽभक्तत्वज्ञापनार्थम्। तथा हि संस्कृषीष्ट, संस्क्रियते इति संयोगादिलक्षणौ इड्गुणौ न भवतः। तिङ्ङतिङः 8-1-18 इति निघातो ऽपि तर्हि न प्राप्नोति, सुटा व्यवहितत्वात्? स्वरविधौ व्यञ्जनम् अविद्यमानवतिति वचनान् न अस्ति व्यवधानम् संचस्करतुः, संचस्करुः इति गुणः कथम्? तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति। संयोगोपधग्रहणं च ऋतश्च संयोगादेर् गुणः 7-4-10 इत्यत्र कर्तव्यम्। टित्करणं सुट्स्तुस्वञ्जाम् इत्यत्र विशेषणार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

675 सुट् कात्पूर्वः। षष्ठ\उfffद्स्याद्यपादे इदं सूत्रम्। `संपरिभ्यां करोतौ भूषणे' `समवाये च' `उपात्प्रतियत्ने'त्यारभ्य `अनुदात्तं पदमेकवर्जमित्यतः प्रागिदमधिकृतं वेदितव्यमित्यर्थः। एवं च कात्पूर्व इत्युक्तेरभ्यासात्प्राङ्नं सुडिति भावः। नन्वभ्यासेन व्यवधानात्कथमिह उत्तरखण्डस्य सुट्, संस्करोतीत्यादौ अव्यहिते सुड्विधेश्चरितार्थत्वात्। किंच समस्करोदित्यत्राऽटा व्यवधानात्कथं सुट्। नह्रडागमः कृञ्भक्तःत्वात्. विकरणान्तस्यैवाङ्गत्वादित्यत आह- - अडभ्याससव्यवायेऽपीत्युक्तमिति। `वार्तिक'मिति शेषः। अटा अभ्यासेन च व्यवधानेऽपि संपर्यादिभ्यः परस्मात्कात्पूर्वः सुडित्यर्थः। इत्यादीति। सुडित्येवाधिकृतमस्तु, `कात्पूर्वः' इति `अडभ्यासव्यवायेऽपी'ति मास्त्वित्येवं भाष्ये प्रत्याख्यातमित्यर्थः। तदेवोपपादयितुं प्रतिजानीते – तथा हीति। पूर्वं धातुरुपसर्गेण युज्यते इति। `पश्चात्साधनेने'ति शेषः। ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकं कार्यं पश्चादनुपतिष्यद्धातुप्रत्ययसंबन्धनिमित्तकात्कार्यादन्तरङ्गम्, प्रथमोपस्थितत्वात्। तदुक्तं भाष्ये– `पूर्वं धातुरुपसर्गेणेति कृत्वा धातूपसर्गयोः कार्यमन्तरङ्ग' मिति। तदाह – अन्तरङ्गत्वात्सुट्। ततो द्वित्वमिति. तथा सुटि कृते `स्कृ' इत्यस्य द्वित्वे उरदत्त्वे रपरत्वे `शर्पूर्वाः खयः' इति रेफसकारयोर्निवृत्तौ अभ्यासचुत्वे संचस्कारेति रूपसिद्धेः `कात्पूर्वः' इति, `अडभ्यासव्यवायेऽपी'ति च न कर्तव्यमिति भावः। एवं समस्करोदित्यत्रापि विकरणान्ताऽङ्गभक्ताऽडागमापेक्षयाऽन्तरङ्गत्वात्प्रथमं सुड्भविष्यतीति कृत्वा `अड्व्यवायेऽपी'त्यंशो न कर्तव्य इत्यूह्रम्। `पूर्वं धातुरुपसर्गेणे'त्याश्रयणे फलान्तरमप्याह – एवं चेति। उक्तरीत्या अन्तरङ्गत्वात्सुटि कृते संस्कृ इत्यस्माल्लिटोऽतुसि `ऋतश्च संयोगादेर्गुणः' इति गुणे संचरस्करतुरिति सिद्ध्यति। `पूर्वं धातुः साधनेन युज्यते' इत्याश्रयणे तु चक्रतुरिति परिनिष्ठितस्य समित्युपसर्गयोगात्संयोगादित्वाऽभावाद्गुणस्याऽसिद्धिरिति भावः। ननु संचस्करिव, संचस्करिथ इत्यत्र च `कृ?सृ?वृ?भृ?'इति `ऋतो भारद्वाजस्ये'ति च इण्निषेधः स्यादित्यत आह– कृसृभृवृसूत्रे इत्यादि। नन्वाशीर्लिङि संस्क्रियादित्यत्र `गुणोऽर्तिसंयोगाद्यो'रिति गुणः कुतो नेत्यत आह– गुणोऽर्तीत्यादि। ननु तङि संस्कृषीष्ट इति लिङि, समस्कृत समस्कृत समस्कृषातामिति लुङि च `ऋतश्च संयोगादे'रिति इट् कुतो नेत्यत आह-ऋतश्चेत्यादि। तनादयः॥

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.