Table of Contents

<<8-1-17 —- 8-1-19>>

8-1-18 अनुदात्तं सर्वम् अपादादौ

प्रथमावृत्तिः

TBD.

काशिका

अनुदात्तम् इति च, सर्वम् इति च, अपादादौ इति च, अपादादौ इति च एतत् त्रयम् अधिकृतं वेदितव्यम् आ पादपरिसमाप्तेः। इत उत्तरं यद् वक्ष्यामः अनुदात्तं सर्वम् अपादादौ इत्येवं तद् वेदितव्यम्। वक्ष्यति आमन्त्रितस्य च 7-1-19 इति। पचसि देवदत्त। अपादादौ इति किम्? यत् ते नियानं रजसं मृत्यो अनवधर्ष्यम्। बहुवचनस्य वस्नसौ 8-1-21। ग्रामो वः स्वम्, जनपदो नः स्वम्। अपादादौ इति किम्? रुद्रो विश्वेश्वरो देवो यष्माकं कुलदेवता। स एव नाथो भगवानस्माकं शत्रुमर्दनः। पादग्रहणेनात्र ऋक्पादः श्लोकपादश्च गृह्यते। सर्वग्रहणम् सर्वम् अनूद्यमानं विधीयमानं च अनुदात्तं यथा स्यातिति। तेन युष्मदस्मदादेशानाम् अपि वाक्यभेदेन अनुदात्तत्वं विधीयते। युष्मदस्मदादेशाश्च सर्वस्य सुबन्तस्य पदस्य यथा स्युः, यत्र अपि स्वादिपदं पदसंज्ञं भवति। ग्रामो वां दीयते। जनपदो नौ दीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

356 अनुदात्तं सर्वमपादादौ। इदं पदत्रयमा पादपरिसमाप्तचेरधिक्रियते।

Satishji's सूत्र-सूचिः

TBD.