Table of Contents

<<6-1-174 —- 6-1-176>>

6-1-175 न उङ्धात्वोः

प्रथमावृत्तिः

TBD.

काशिका

ऊङो धातोश्च य उदात्तयण् हलपूर्वः, तस्मात् परा तृतीयादिर् विभक्तिर् न उदात्ता भवति। ब्रह्मबन्ध्वा। ब्रह्मबन्ध्वे। वीरबन्ध्वा। वीरबन्ध्वे। ऊङ् प्रत्ययस्वरेण उदात्तः। तेन सह य एकादेशः सो ऽप्युदात्तः इति उदात्तयण्वकारः, तस्मादुदात्तत्वे प्रतिषिद्धे उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य 8-2-4 इति विभक्तिः स्वर्यते। धातुयणः खल्वपि सकृल्ल्वा। सकृल्ल्वे। खलप्वे। क्विबन्द्तस्य कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तस्य ओः सुपि 6-4-83 यणादेशः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.