TBD.
सः इत्येतस्य अचि परतः सुलोपो भवति, लोपे सति चेत् पादः पूर्यते। सेदु राजा क्षयते चर्षणीनाम्। सौषधीरनुरुध्यसे। लोपे चेत् पादपूरणम् इति किम्? स इव व्याघ्रो भवेत्। अचि इति वस्पष्टार्थम्। पादग्रहणेन अत्र श्लोकपादस्य अपि ग्रहणं केचिदिच्छन्ति, तेन इदं सिद्धं भवति। सैष दाशरथी रामः सैष राजा युधिष्ठिरः। सैष कर्णो महात्यागी सैषा भीमो महाबलः।
TBD.
115
352 सोऽचि। `स' इति प्रथमैकवचनान्तस्वरूपपरं , ततः षष्ट\उfffदा लुक्। एवञ्च `सस्'- शब्दस्येति लभ्यते। `सुलोप' इत्यनुवर्तते। तदाह-सस् इत्यादिना।
यां स्वादिसन्धिः * धातवो निरूप्यन्ते। षुञ्धातुः षोपदेशः। अनिट्। इत आरभ्य ञित्त्वादुभयपदिनः। सुरासन्धानमिति। सुरोत्पादनमित्यर्थः।
1529 सोऽचि लोपे। `अचीति विस्पष्टार्थ'मिति वृत्तौ स्थितम्। `सस्'इति तच्छब्दस्य प्रथमैकवचनान्तस्यानुकरणं लुप्तषष्ठीक्रमित्याह–स इत्यस्येति। बहुलग्रहणेति। अतएव लोपं विना पादपूरणेऽपि क्वचिद्भवति-`सास्मा अरम्' इति। अत्र वदन्ति–ये तु `सोऽहमाजन्मशुद्धना'मित्यादिसिध्द्यर्थं `पादश्चेल्लोपे सत्येव पूर्येते'ति सावधारणं व्याचख्युस्तेषां `सास्मा अर'मित्यादौ सलोपानापत्तिः। अत्र हि `सः-अस्मै' इति च्छेदः। बहुलग्रहणानुवृत्त्या तदुपपादने तु `सोऽहमाजन्मे'त्याद्येव तथोपपाद्यतां, किमवधारणेनेति। *
TBD.