Table of Contents

<<5-4-136 —- 5-4-138>>

5-4-137 उपमानाच् च

प्रथमावृत्तिः

TBD.

काशिका

उपमानात् परो यो गन्धशब्दः तस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे। पद्मस्य इव गन्धो ऽस्य पद्मगन्धिः। उत्पलगन्धिः। करीषगन्धिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

866 उपमानाच्च। उपमानवाचिपूर्वपदात्परस्यापि गन्धशब्दस्य इकारोऽन्तादेशः स्याद्बहुव्रीहावित्यर्थः। पद्मस्येवेति। फलितार्थकथनमिदम्। पद्मगन्ध इव गन्धो यस्येति विग्रहः। पद्मपदं पद्मसंबन्धिगन्धसदृशो लाक्षणिकम्। `सप्तम्युपमानपूर्वपदस्ये'ति समासः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.