Table of Contents

<<5-4-136 —- 5-4-138>>

5-4-137 उपमानाच् च

प्रथमावृत्तिः

TBD.

काशिका

उपमानात् परो यो गन्धशब्दः तस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे। पद्मस्य इव गन्धो ऽस्य पद्मगन्धिः। उत्पलगन्धिः। करीषगन्धिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

866 उपमानाच्च। उपमानवाचिपूर्वपदात्परस्यापि गन्धशब्दस्य इकारोऽन्तादेशः स्याद्बहुव्रीहावित्यर्थः। पद्मस्येवेति। फलितार्थकथनमिदम्। पद्मगन्ध इव गन्धो यस्येति विग्रहः। पद्मपदं पद्मसंबन्धिगन्धसदृशो लाक्षणिकम्। `सप्तम्युपमानपूर्वपदस्ये'ति समासः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.