Table of Contents

<<4-1-77 —- 4-1-79>>

4-1-78 अणिञोरनार्षयोर् गुरूपोत्तमयोः ष्यङ् गोत्रे

प्रथमावृत्तिः

TBD.

काशिका

गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोः प्रातिपदिकयोर् गुरूपोत्तमयोः स्त्रियां ष्यङादेशो भवति। निर्दिष्यमानस्य आदेशा भवन्ति इत्यणिञोरेव विज्ञायते, न तु समुदायस्य। ङकारः सामान्यग्रहणार्थः। षकारस् तदविघातार्थः, यङश्चाप् 4-1-74 इति। उत्तमशब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमक्षरमाह। उत्तमस्य समीपम् उपोत्तमम्। गुरु उपोत्तमं यस्य तद् गुरूपोत्तमं प्रातिपदिकम्। करीषस्य इव गन्धो ऽस्य करीषगन्धिः। कुमुदगन्धिः। तस्यापत्यम् इत्यण्। तस्य ष्यङादेशः। कारीषगन्ध्या। कौमुदगन्ध्या। वराहस्यापत्यम्। अत इञ् 4-1-95। वाराहिः। तस्य ष्यङादेशः। वाराह्या। बालाक्या। अणिञोः इति किम्? ऋतभागस्यापत्यं, बदादित्वादञ्, आर्तभागी। गुरूपोत्तमादिकं सर्वम् अस्ति इति न स्तणिञौ। टिड्ढाणञ् 4-1-15 इति ङीबेव भवति। अनार्षयोः इति किम्? वासिष्ठी। वैश्वामित्री। गुरूपोत्तमयोः इति किम्? औपगवी। कापटवी। गोत्रे इति किम्? तत्र जाताः 4-3-25 आहिच्छत्री। कान्यकुब्जी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1180 अणिञोः। त्र्यादीनामन्त्यमुत्तममिति। तथा भाष्यादिति भावः। तस्य समीपमुपोत्तममिति। सामीप्येऽव्ययीभाव इति भावः। गुरु-उपोत्तमम्-उत्तमसमीपवर्ति ययोरिति विग्रहः। प्रातिपदिकादित्धिकृतं षष्ठीद्विवचनेन विपरिणम्यते। उपोत्तमगुरुवर्णकयोः प्रातिपदिकयोरिति लभ्यते। `अणिञो'रित्यनेन प्रत्ययग्रहणपरिभाषयाञन्तयोग्र्रहणम्। `गोत्रे' इत्येतत् अणिञोरन्वेति। ऋषेरविहितौ-अनार्षौ। इदमपि अणिञोविशेषणं। स्त्रियामित्यधिकृतम्। तदाह गोत्रे यावणिञावित्यादिना। आदेशः स्यादिति। स्थानषष्ठीनिर्देशादादेशत्वलाभः। अणिञन्तयोः श्यङादेशोऽयमनेकाल्त्वात्सर्वादेशः स्यादित्यत आह–निर्दिश्यमानस्येति। तथा च अणिञोरेवायमादेश इति भावः। `ङिच्चे'त्यन्तादेश इति तु न युक्तं, ङित्त्वस्य ष्यङः सम्प्रसारण'मित्यादौ चरितार्थत्वात्। कुमुदगन्धेरिति। कुमुदगन्ध इव गन्धो यस्येति विग्रहः। `सप्तम्युपनानपूर्वपदस्य बहुव्रीहिर्वाच्यः, उत्तरपदलोपश्चे'ति बहुव्रीहिः, पूर्वखण्डे उत्तरपदस्य गन्धशब्दस्य लोपश्च। `उपमानाच्चे'ति इत्त्वं। कुमुदगन्धेरपत्यं स्त्रीति विग्रहे अण्। `यस्येति चे'ति इकारलोपः, आदिवृद्धिः, कौमुदगन्धशब्दः, तत्र धकारादणोऽकार उत्तमः। तत्समीपवर्ती गुरुः गकारादकारः, `संयोगे गुरु' इत्युक्तेः। नचाऽनुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वं गकारादकारस्येति वाच्यं, येन नाव्यवधानं तेन व्यवहितेऽपी'ति न्यायेन हला व्यवधानस्याऽदोषत्वात्। नह्रणि परेऽव्यवहितो गुरुः क्वचिदस्ति। एवंच गुरूपोत्तमं प्रातिपदिकं कौमुदगन्धेत्यणन्तं, तदवयवस्य अमः ष्यङादेशे `यङश्चा'विति चापि कौमुदगन्ध्याशब्द इत्यर्थः। इञन्तस्योदाहरति–वाराह्रेति। वराहस्यापत्यं स्त्री विग्रहः। अत इञ्। अकारलोपः। वाराहिशब्दः। तत्र इकार उत्तम#ः। रेफादाकार उत्तमसमीपवर्ती गुरुः इञ इकारस्य ष्यङादेशः, चाविति भावः। वासिष्ठी वै\उfffदाआमित्रीति। ऋष्यणन्तावेतौ औपगवीति। अणन्तत्वेऽपि गुरूपोत्तमत्वाऽभावान्न ष्यङ्। जातिलक्षण इति। `गोत्रं च चरणैः सहे ति जातित्वम्। आहिच्छत्रीति। जातार्थे अणयं, नतु गोत्र इति न ष्यङ्। नच ष्यङ्प्रत्यय एव कुतो न विधीयते इति वाच्यं, तथा सति उदमेघस्यापत्यं स्त्रीति विग्रहेऽत इति ष्यङि चापि औदमेध्या, तस्या अपत्यं ओदमेधेय इति न सिध्येत्, अस्यापत्यप्रत्ययत्वाऽभावेन यलोपाऽप्राप्तेरिति स्पष्टं भाष्ये।

तत्त्वबोधिनी

976 अणिञोः। उत्तममिति। अव्युत्पन्नं प्रातिपदिकमिदं न तूच्छब्दात्तमप्ष तेन `किमेत्तिङव्ययघादि'त्याम् नशङ्क्यः। गोत्रे याविति। `अपत्याधिकारादन्यत्र लौकिकं गोत्र'मिति नेह शास्त्रीयं गृह्रते। तथा च `अनार्षयो'रिति पर्युदासादेव सिद्धे गोत्रग्रहणमिह त्यक्तुं शक्यम्। न चाऽत्र गोत्रग्रहणसामथ्र्याच्छास्त्रीयमेव गोत्रं गृह्रत इति वाच्यं, दैवदत्त्या याज्ञदत्त्येत्यादीनामानन्तरापत्येऽपीष्यमाणत्वात्। अतएवानुपदं वक्ष्यति `कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्ये'ति। इदं च कौस्तुभानुसारि व्याख्यानमत्रत्यमूलानुगुणमपि `दैवयज्ञि'सूत्रस्थेन `अगोत्रार्थ'मित्यादिमूलग्रन्थेन सह विरुध्यत इति तत्रैव स्फुटीभविष्यति। यद्यपि स्त्रीप्रत्ययाः प्रकृतास्तथापि `पत्युर्नो यज्ञसंयोगे'इति नकारस्येव ष्यङ आदेशत्वमेवोचितम्, `अणिञो'रिति षष्ठीस्वरसादित्यभिप्रेत्याह—ष्याङादेशः स्यादिति। ष्यङः प्रत्ययत्वेऽपि लक्ष्यसिद्धिरप्रत्यूहेति मनोरमायां स्थितम्। नन्वयं `ङिच्चे'त्यन्तादेशं बाधित्वापर्तावत्सर्वादेशः स्यात्। `ङिच्चे'त्यस्यानन्यार्थङित्त्वेष्वनङादिषु चरितार्थत्वात्। ष्यङोऽनुबन्धस्य `यङश्चा'बिति विशेषणार्थतया सप्रयोजनत्वादित्याशङ्क्याह—निर्दिश्यमानस्येति। षङाविताविति। अनुबन्धद्वयकरणं ञ्यङ इव ष्यङोऽपि `यङश्चा'बित्यत्र सामान्यग्रहणार्थम्। न च `ष्यङः संप्रसारण'मित्यत्र विशेषणार्थं तयोरुपयोगोऽस्ति। अन्यथा पाश्यापुत्रः पाश्यापतिरित्यत्र `पाशादिभ्योः येः'इति यप्रत्ययेऽपि संप्रासारणप्रसङ्ग इति वाच्यं, `यङः संप्रसारण'मित्येकानुबन्देनापि तद्वारणात्। `लोलूयापति'रित्यत्र त्वकारप्रत्ययेन व्यवधानात्संप्रसारणाऽभावः। `कौमुदगन्धीपुत्र' इत्यत्र त्वेकादेशस्य पूर्वान्तत्वेन ग्रहणान्नास्ति व्यावधानमिति संप्रसारणं सिध्यति। कौमुदगन्ध्येति। अणः ष्यङ्। वाराह्रेति। इञः ष्याङ्। अणिञोः किम्?। ऋतभागस्यापत्यमार्तभागी। बिदादित्वादञ्। `शाङ्र्गरवाद्यञः'इति ङीन्। `टिड्ढे'त्यादिना ङीबिति तु वृत्तिकारः। `अणिञो'रित्यत्र तु लौकिकं गोत्रं गृह्रते। `गोत्रं च चरणै'रित्यत्र तु पारिभाषिकमेव गृह्रते। तेन जातित्वाऽभावान्ङीनः प्राप्तिर्नास्तीति स्थितस्य गतिमाहुः।

Satishji's सूत्र-सूचिः

TBD.