Table of Contents

<<6-1-13 —- 6-1-15>>

6-1-14 बन्धुनि बहुव्रीहौ

प्रथमावृत्तिः

TBD.

काशिका

स्यङः संप्रसारणम् इति अनुवर्तते। बन्धुशब्दे उत्तरपदे बहुव्रीहौ समासे ष्यङः सम्प्रसारणम् भवति। कारीषगन्ध्या बन्धुः अस्य कारीषगन्धीबन्धुः। कौमुदगन्धीबन्धुः। बहुव्रीहौ इति किम्? कारीषगन्ध्यायाः बन्धुः कारीषगन्ध्याबन्धुः। अत्र अपि पूर्ववदेव। परमकारीषगन्धीबन्धुः इत्यत्र भवति। अतिकारीषगन्ध्याबन्धुः इति च न भवति, तथा कारीषगन्ध्याबन्धुधनः, कारीषगन्ध्यापरमबन्धुः इति। बन्धुनि इति नपुंसकालिङ्गनिर्देशः शब्दरूपापेक्षया, पुंलिङ्गाभिधेयस् तु अयं बन्धुशब्दः। मातच् मातृकमातृषु। ष्यङः सम्प्रसारणं भवति विभाषया बहुव्रीहावेव। कारीषगन्ध्या माता अस्य इत्येवं बहुव्रीहौ कृते एतस्मादेव उपसङ्ख्यानात् पक्षे मतृशब्दस्य मातजादेशः। तत्र चित्करनसमर्थ्याद् बहुव्रीहिस्वरम् अन्तोदात्तत्वं बाधते। मातृमातृकशब्दयोश्च भेदेन उपादानात् नद्यृतश्च 5-4-153 इति कबपि विकल्प्यते। कारीषगन्धीमातः, कारीषगन्ध्यमातः, कारीषगन्धीमातृकः, कारिषगन्ध्यामातृकः, कारीषगन्धीमाता, कारीषगन्ध्यामाता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

990 बन्धुनि बहुव्रीहौ। कारीषगन्धीबन्धुरिति। तत्र पत्युत्तरपदत्वाऽभावात्तत्पुरुषत्वाऽभावाच्च पूर्वेण न प्राप्तिः।

संप्रसारणं वा वक्तव्यमित्यर्थः। मातचि उदाहरति–कारीषगन्धीमातः, कारीषगन्ध्यामात इति। मातृशब्दस्य मातजादेशः। अदन्तमेतत्। कारीषगन्ध्यामातृक इति। `नद्यृतश्चे'ति कप्। मातृशब्दे उदाहरति–कारीषगन्धीमाता, कारीषगन्ध्यामातेति। शैषिककबभावे रूपम्। ननु मातृशब्दस्य मातजादेशे किं प्रमाणं, `नद्यृतश्चे'ति नित्यविधानात्पाक्षिककप्च दुर्लभ इत्यत आह–अत एवेति। बहुव्रीहावेवेदमिति। `बन्धुनि बहुव्रीहौ इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः। `मात'जिति चित्करणं स्वरार्थमित्याह–चित्त्वसामथ्र्यादिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.