Table of Contents

<<6-3-138 —- 6-4-1>>

6-3-139 सम्प्रसारणस्य

प्रथमावृत्तिः

TBD.

काशिका

उत्तरप्दे इति वर्तते। सम्प्रसारणान्तस्य पूर्वपदस्य उत्तरपदे दीर्घो भवति। कारीषगन्धीपुत्रः। कारीषगन्धीपतिः। कौमुदगन्धीपुत्रः। कौमुदीगन्धीपतिः। करीषस्य इव गन्धो ऽस्य, कुमुदस्य इव गन्धो ऽस्य, अल्पाख्यायाम् 5-4-136, उपमानाच् च 5-4-137 इति इकारः समासान्तः। करीषगन्धेरपत्यम् कारीषगन्ध्या। कुमुदगन्धेरपत्यम् कौमुदगन्ध्या, तस्याः पुत्रः कौमुदगन्धीपुत्रः। कौमुदगधीपतिः। इको ह्रस्वो ऽङ्यो गालवस्य 6-3-61 इत्येतन् न भवति। व्यवस्थितविभाषा हि सा। अकृत एव दीर्घत्वे ह्रस्वभावपक्षे कृतार्थेन अपि दीर्घेण पक्षान्तरे परत्वाद् ह्रस्वो बाध्यते। पुनः प्रसङ्गविज्ञानं च न भवति, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद्बाधितम् एव इति। इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य तृतीयः पादः। षष्ठाध्यायस्य चतुर्थः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

841 संप्रसारणस्य। `उत्तरपदे'इत्यधिक्रियते। `ढ्रलोपे'इत्यतो `दीर्घ' इत्यनुवर्तते। तदाह—दीर्घः स्यादुत्तरपद इति। `हलः'इति दीर्घोऽत्र न प्रवर्तते, प्रत्ययस्य लुका लुप्तत्वेनाङ्गसंज्ञाया अप्रवृत्तेः। कौमुदगन्ध्याया इति। कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या। `तस्यापत्य'मित्यणि कृते `अणिञो'रिति ष्यङादेशः। `यङश्चाप्'। ननु `कौमुदगन्धीपुत्रः'इत्यादौ `इको ह्यस्वोऽङ्योगालवस्ये'ति ह्यस्वेन भाव्यं, दीर्घविधानं तु पक्षे सावकाशमित्यत आह– व्यवस्थितविभाषयेति। नेहेति संप्रसारणमिह नेत्यर्थः। अतिकारीषेति। कारीषगन्ध्यामतिक्रान्तोऽतिकारकीषगन्ध्यः, तस्य पुत्रः।

Satishji's सूत्र-सूचिः

TBD.