TBD.
युवन्शब्दात् प्रातिपदिकात् स्त्रियां तिः प्रत्ययो भवति। स च तद्धितसंज्ञो भवति। ङीपो ऽपवादः। युवतिः।
TBD.
–
160 यूनस्तिः। `तद्धिता' इत्यनुवृत्तमेकवचनेन विपरणम्यते। तदाह– युवन्शब्दादित्यादि। `स्त्रिया'मिति शेषः। `समर्थना'मित्यतः प्राक्तदधिकारस्योक्तत्वादिति भावः। नान्तलक्षणङीपोऽपवादः। नन्वत्र तद्धितग्रहणानुवृत्तिव्र्यर्था। नच `कृत्तद्धिते'ति प्रातिपदिकत्वार्थं तदनुवृत्तिरिति वाच्यम्, प्रातिपदिकत्वाभावेऽपि लिङ्गविशिष्टपरिभाषया तिप्रत्ययान्तात्सुबुत्पत्तिसिद्धेरित्यत आह–लिङ्गविशिष्टस्येति। युवतिरिति। स्वादिष्विति पदत्वात् `न लोप' इति नकारलोपः। अनुपसर्जनादित्येवेति। अनुवर्तत एवेत्यर्थः। बहुयुवेति। उपसर्जनत्वात्तिप्रत्ययाऽभावे नान्तलक्षणङीपः `अनो बहुव्रीहेः' इति निषेधे `डाबुभाभ्या'मिति डापि च रूपम्। ननु `युवतीभिः परिवृत' इत्यादौ कथं युवतीशब्द ईकारान्त इत्यत आह–युवतीति त्विति। `युमिश्रणे' इत्यस्माल्लटः शतरि, शपो लुकि, उवङि उगित्त्वान्ङीपि युवतीशब्दो व्युत्पन्नो बोध्य इत्यर्थः। पतिं सुखेन मिश्रयन्ती योषिदुच्यते। अन्ये तु युधातोरौणादिके बाहुलकात्कतिप्रत्यये कित्त्वाद्गुणाऽभावे उवङि उगित्त्वान्ङीपि युवतीशब्दः सिध्यतीत्याहुः। \र्\निति श्रीमद्वासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां स्त्रीप्रत्ययनिरूपणम्।
307 यूनस्तिः। `ऋन्नेभ्यः'इति ङीपोऽपवादः। युवतिरिति। `स्वादिषु—'इति पदत्वान्नलोपः। कथं तर्हि `युवतीकरकोमलनिर्मथित'मिति प्रयोगः। अत्र केचित्– `सर्वतोऽक्तिन्नर्था'दिति बह्वादिगणसूत्राद्वैकल्पिकोऽत्र ङीष्। न च तिप्रत्ययेनैव स्त्रीत्वस्योक्तत्वान्ङीष् नभविष्यतीति शङ्क्यम्,—`उक्तेऽपि हि भवन्त्येते'इति भष्यात्। न चैवमपि युवतीनां समूहो `योवत'मिति न सिध्येत्। किं तु `तस्य समूहः'इत्यणि `भस्याढे तद्धिते'इति पुंवद्भावेन `यौवन'मित्येव स्यादिति वांच्यम्, बाहुलकाद्यौतेरौणादिके कतिप्रत्ययेसति युवतिशब्दस्तमादय तत्सिद्धेरिति। इमं क्लेशं परिहारन्नाह—शत्रन्तादिति। यौति मिश्री करोति पत्येति विग्रहे `लटः शतृशानचौ'इति शतरि `उगितश्च'इति ङीप्। एवं हि `यौवत'मिति प्रयोगोऽपि सुलभः। त्यन्तादणि तु पुंवद्भावाद्यौवनमित्येव। `भिक्षादिपाठसामथ्र्यात् पुंव'दिति वृत्तिकारोक्तिरयुक्तेति `भिक्षादिभ्योऽण्'इत्यत्रैवोपपादयिष्यामः। *इति तत्त्वबोधिन्यां स्त्रीप्रत्ययप्रकरणम्* सुन्व इति। `लोपश्चास्ये'त्युकारस्य लोपः।
TBD.