TBD.
यङन्तात् प्रातिपदिकात् स्त्रियां चाप् प्रत्ययो भवति। ञ्यङः ष्यङश्च सामान्यग्रहणम् एतत्। आम्बष्ठ्या। सौवीर्या। कौसल्या। ष्यङ् कारीषगन्ध्या। वाराह्या। बालाक्या। षाच् च यञः। षात् परो यो यञ् तदन्ताच् चाप् वक्तव्यः। शार्कराक्ष्या। अपुतिमाष्या। गौकक्ष्या। उत्तरसूत्रे चकारो ऽनुक्तसमुच्चयार्थः, तेन वा भविष्यति।
TBD.
–
521 यङश्चाप्। पकारो `हल्ङ्याब्भ्यः' इत्यत्र ग्रहणार्थः। चकारः `चितः' इत्यन्तोदात्तार्थः। सामान्येति। यङ्रूपस्य उभयत्रापि सत्त्वादिति भावः। ञ्यङमुदाहरति–आम्बष्ठ\उfffदेति। आम्बषष्ठस्यापत्यं स्त्रीत्यर्थः। `वृद्धेत्कोसले'ति ञ्यङ्। आम्बष्ठ\उfffद्शब्दाच्चाप्। ष्यङमुदाहरति– कारीषगन्ध्येति। करीषं=गवादिपशुपुरीषं, तस्येव गन्धो यस्य सः-करीषगन्धिः। `उपमानाच्चे'ति गन्धस्य इकारोऽन्तादेशः। करीषगन्धेर्गोत्रापत्यं स्त्रीत्यर्थेऽण्प्रत्ययः। `अणिञोरनार्षयोः' इति तस्य ष्यङादेशः। इति। षकारात्परो यो यञतदन्तादपि चाबित्यर्थः। शार्कराक्ष्येति। शर्कराक्षस्यापत्यं स्त्रीत्यर्थः। पौतिमाष्येति। पूतिमाषस्यापत्यं स्त्रीत्यर्थः। `गर्गादिभ्यो य'ञित्युभयत्र यञ्।
470 यङ्श्चाप्। पकारोऽत्र `हल्ङ्याबि'ति सामान्ग्रहणार्थः। चकारस्य तदविघातेन चरितार्थत्वेऽपि परत्वाच्चित्स्वरः पित्स्वरं बाधते। आम्बष्ठ\उfffदेति। आम्बष्ठस्यापत्यं स्त्री। `वृद्धेत्कोशला—-'इति ञ्यङ्। कारीषगन्ध्येति। करीषस्येव गन्धोऽस्य करीषगन्धिः। `उपमानाच्चे'ति गन्धस्येदन्तादेशः। तस्य गोत्रापत्यं स्त्री। अण्। `अणिञोरनार्षयोः—-'इति ष्यङादेशः। स च यद्यपि स्त्रियामेव विहितसतथापि ङित्करणसामथ्र्यात्तदन्तादप्ययं चाप्। षाद्यञ इति। एतच्च `आवट\उfffदाच्चे'ति चकारस्यानुक्त समुच्चयार्थत्वाल्लभ्यत इत्यहुः। पौतिमष्येति। पूतिमाषशब्दो गर्गादिः। बहुवचनमनुक्तानामुपसङ्ग्येयानां सङ्ग्रहार्थम्। महासंज्ञाकरणं तु –तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इत्यन्वर्थलाभाय। तेन यथाप्रयोगमेव स्युः। ननु टापः प्रागेवायमधिकारोऽस्तु, ष्फविधौ तद्धितग्रहणं यस्येतिलोपे, ईद्ग्रहणं च मास्त्विति चेन्मैवम्; `पठ्वी'`मृद्वी'त्यादावोर्गुणपर्सङ्गात्। यदि तु `यस्येति चे'त्यत्र ईद्ग्रहणमेव ङीषि तद्धितकार्याऽभावं ज्ञापयतीति स्वीक्रियेत, तर्हि टापः प्राक्तद्धिताधिकारेऽपि न कश्चिद्दोष इथि केचित्। तच्चिन्त्यम्। `कुरु'रित्यादौ ओर्गुणादिप्रसङ्गादिति नव्याः।
TBD.