TBD.
अणादयो घादयश्च प्रत्ययाः प्रकृताः, तेषाम् अतः प्रभृति अर्थाः समर्थविभक्तयः च निर्दिश्यन्ते। तत्र इति सप्तमीसमर्थात् जातः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। स्रुघ्ने जातः स्त्रौघ्नः। माथुरः। औत्सः। औदपानः। राष्ट्रियः। अवारपारीणः। शाकलिकः। माकलिकः। ग्राम्यः। ग्रामीणः। कात्रेयकः। औम्भेयकः।
TBD.
1090 सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः. स्रुग्घ्ने जातः स्रौग्घ्नः. उत्से जात औत्सः. राष्ट्रे जातो राष्ट्रियः. अवारपारे जातः अवारपारीणः, इत्यादि..
1373 अथ तेषां प्रत्ययानामर्थविशेषान्, प्रकृतीनां च विभक्तिविशेषान् दर्शयितुमुपक्रमते–तत्र जातः सप्तमीसमर्थादिति। सप्तम्यन्तात्कृतसन्धेरित्यर्थः। तत्रेत्यनेन सप्तम्यन्तस्यैव प्रथमानिर्दिष्टत्वादिति भावः। अणादय इति। अपत्यादिविकारान्तार्थसाधारणा इत्यर्थः। घादय इति। `राष्ट्रावारपारे'त्यादिभिर्विशेषविहिता इत्यर्थः।
1080 तत्र जातः। ननु शेषे इत्यस्य लक्षमत्वोक्तेः `चाक्षुषं रूपं, श्रावणः शब्दः'इत्यादाविव जातादिष्वर्थेष्वणादयः सिद्धाः, अधिकाराञ्च घादयोऽपि। न च `जातादिष्वेवाऽणादयः'इति नियमार्थं जाताद्यर्थनिर्देश आवश्यकः। अन्यथा `तत्रास्ते, तत्र शेते'इत्याद्यर्थेऽपि प्रत्ययः स्यादिति वाच्यम्, `चाक्षुषु'मित्यद्यसिद्द्यापत्तेः।रुआउध्ने आस्ते, रुआउध्ने शेते'इत्यादौ त्वनभाधानादेव तद्धितो न भविष्यति, अङ्गुल्या खनति, वृक्षमूलादागत इत्यादौ यथा। समर्थविभक्तयस्त्वाक्षेपादेव लप्स्यन्ते। चाक्षुषमित्यत्र तृतीया यथा, तस्मात् `तत्र जातः'इत्याद्यर्थनिर्देशो व्यर्थ इति चेत्। मैवम्। `प्रावृषष्ठ'बित्याद्यपवादार्थं तदावश्यकत्वात्। ये तु निरपवादा अर्थनिर्देशाः `कृतलब्धक्रीतकुशलाः'इत्यादयः, ते तु व्यर्था एवेति दिक्।
TBD.