TBD.
अणिञोः इत्येव। गोत्रावयवाः गोत्राभिमताः कुलाख्याः पुणिकभुणिकमुखरप्रभृतयः। ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशो भवति। अगुरूपोत्तमार्थ आरम्भः। पौणिक्या। भौणिक्या। मौखर्या। येषां स्वनन्तरापत्ये ऽपि इष्यते दैवदत्त्या, याज्ञादत्त्या इति , ते क्रौड्यादिषु द्रष्टव्याः।
TBD.
–
1181 गोत्रावयवात्। गोत्रावयवशब्दं व्याचष्टे-गोत्रावयवा गोत्राभिमता इति। गोत्र=कुलम्, अभिमतं=प्रख्यातं याभिरिति विग्रहः। कुलप्रख्यातिकृत इत्यर्थः।कुलव्यपदेशकृत इति यावत्। तदाह–कुलाख्या इति। कुलम् आख्यायते व्यपदिश्यते आभिरिति कुलाख्याः। कुलनामानीत्यर्थः। पुणिकादिशब्दैर्हि कुलं व्यपदिश्यते-`पुणिकाः वयं', `भुणिकाः वय'मित्यादि। अवपूर्वकात् `यु मिश्रणे' इति धातोरुपसर्गवशेन प्रख्यात्यर्थकात् पचाद्यचि अवयवशब्दः। कुवस्यावयवः प्रख्यापकशब्दः कुलावयव इति लभ्यत इति भावः। ननु पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह–अगुरूपोत्तमार्थ इति। गोत्रादवयुतं=मिश्रितम्-अनन्तरापत्यं, तदर्थमित्यपि भाष्ये स्पष्टम्। एवञ् पूर्वसूत्रे अपत्याधिकारबहिर्भूतेऽपि पारिभाषिकमेव गोत्र गृह्रत इति भाष्यस्वरसः। पौणिक्येति। पुणिकस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङि चाप्। एवं मौणिक्या। मनुष्यनामत्वे तन्नामिकाऽणः ष्यङ्।
977 गोत्रावयवात्। अवयवशब्दोऽप्रधानवाची, अवयवश्चासौ गोत्रं चेति कर्मधारयः, निपातनाद्गोत्रशब्दस्य पूर्वनिपातः। गोत्रभिमता इति। `गोत्र मित्येवमभिमताः=गोत्रवाचित्वेन देशविशेषे प्रसिद्धाः, न तु प्रवराध्याये पठिता इत्यर्थः। प्रवराध्यायेऽपाठाच्चाऽप्राधान्यम्। कुलाख्या इति। कुलमाख्यायते यैरिति कुलाख्याः–पुणिकभुणिक मुखरप्रभृतयः। तैर्हि कुलमाख्यायते `पुणिका वयं गोत्रेण' `भुणिका वयं गोत्रेण'इति। तत इचि। गोत्रावयवादित्यर्थः।
TBD.