Table of Contents

<<4-1-14 —- 4-1-16>>

4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरप्ख्युनाम्

प्रथमावृत्तिः

TBD.

काशिका

अतः इति सर्वत्र अनुवरतते। तत् सति सम्भवे विशेषणं भवति। टिदादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति। टापो ऽपवादः। टितस्तावत् कुरुचरी। मद्रचरी। इह कस्मान् न भवति, पचमाना, यजमाना? द्व्यनुबन्धकत्वाल् लटः। ल्युडादिषु कथम्? टित्करणसामर्थ्यात्। इतरत्र तु टेरेत्वं फलम्। पठिता विद्या इति? आगमटित्त्वम् अनिमित्तं, ट्युट्युलौ तुट् च इति लिङ्गात्। ढ सौपर्णेयी। वैनतेयी। निरनुबन्धको ढशब्दः स्त्रियां न अस्ति इति निरनुबन्धकपरिभाषा न प्रवर्तते। अण् कुम्भकारी। नगरकारी। औपगवी। णे ऽपि क्वचिदण्कृतं कार्यं भवति। चौरी, तापसी। दाण्डा, मौष्टा इत्यत्र न भवति। अञ् औत्सी। औदपानी। शार्ङ्गरवाऽद्यञो ङीन् 4-1-73 इति पुनरञो ग्रहणं जातिलक्षणं ङीषं बाधितुम्। द्वयसच् ऊरुद्वयसी। जानुद्वयसी। दघ्नच् ऊरुदघ्नी। जानुदघ्नी। मात्रच् ऊरुमात्री। जानुमात्री। तयप् पञ्चतयी। दशतयी। ठक् आक्षिकी। शालाकिकी। ठञ् लावणिकी। ठक्ठञोर् भेदेन ग्रहणं ठनादिनिवृत्त्यर्थम्। कञ् यादृशी। तादृशी। क्वरप् इत्वरी। नश्वरी। ख्युन् आढ्यङ्करणी। सुभगंकरणी। नञ्स्नञीकक्तरुणतलुनानाम् उपसङ्ख्यानम्। स्त्रैणी। पौंस्नी। शाक्तीकी। याष्टीकी। तरुणी। तलुनी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1254 अनुपसर्दनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप्स्यात्. कुरुचरी. नदट् नदी. देवट् देवी. सौपर्णेयी. ऐन्द्री. औत्सी. ऊरुद्वयसी. ऊरुदघ्नी. ऊरुमात्री. पञ्चतयी. आक्षिकी. लावणिकी. यादृशी. इत्वरी. (नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम्). स्त्रैणी. पैंस्नी. शाक्तीकी. याष्टीकी. आढ्यङ्करणी. तरुणी. तलुनी..

बालमनोरमा

463 टिड्ढाणञ्। टित्, ढ, अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप्,-एषां द्वादशानां समाहारद्वन्द्वात्पञ्चम्येकवचनम्। ढादय एकादश प्रत्ययाः। प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम्। टित्तु प्रत्ययोऽप्रत्ययश्च। टिदादिभिश्च प्रातिपदिकादित्यधिकृतं विशेष्यते, विशेषणत्वात्तदन्तविधिः। ततश्च टिदन्ताड्ढाणादिप्रत्ययान्तान्ताच्च प्रातिपदिकादिति लभ्यते। `अजाद्यतष्टाप्' इत्यस्मादत इत्यनुवृत्तं, तेनापि प्रातिपदिकं विशेष्यते। तदन्तविधिः। `अनुपसर्जना'रित्येतच्छ\उfffद्तेषु टिदादिष्वेवान्वेति, नतु तदन्तेषु। स्त्रियामित्यधिकृतं। तदाह–अनुपसर्जनं यट्टिदादीत्यादिना। तदन्तमिति। टिदन्तं, ढादिप्रत्ययान्तं चेत्यर्थः। टित्रिविधिः। प्रत्ययः, प्रातिपदिकं, धातुश्च। तत्राद्यमुदाहरति–कुरुचरीति। कुरुषु चरतीत्यधिकरणे उपपदे `चरेष्टः' इति कर्तरि टः। टकार इत्। उपपदसमासः। नच प्रत्ययस्यैवाऽत्र टित्त्वात्प्रत्ययग्रहणुपरिभाषया चरेत्येव टिदन्तं, नतु कुरुचरशब्दः, तदादिनियमादिति वाच्यं, नदट् देवडित्यादेरप्रत्ययस्यापि टितः सत्त्वेन तत्र प्रत्ययग्रहणपरिभाषाया अप्रवृत्तौ `येन विधिः' इति टिदन्तत्वस्य कुरुचरशब्दे सत्त्वात्। अथ द्वितीयं टितमुदाहरति- नदडिति। पचादिगणे पठितं प्रातिपदिकमेतत्। तृतीयं तु कृदन्ते स्तनन्धयीत्युदाहरिष्यते। अनुपसप्जनत्वविशेषणस्य प्रयोजनमाह–बहुकुरुचरेति। बहवः कुरुचरा यस्यामिति विग्रहः। बहुव्रीहिरयमन्यपदार्थप्रधानः। ततश्च टितष्टप्रत्ययस्य उपसर्जनत्वान्न ङीप्। अनुपसर्जनत्वस्य प्रातिपदिकविशेषणत्वे तु ङीबत्र दुर्वारः। अतएव च आपिशालिना प्रोक्तमधीते आपिशला ब्राआहृणीत्यत्रापि न ङीप्। तत्र हि आपिशलिना प्रोक्तमित्यर्थे `तेन प्रोक्त'मित्यणि आपिशलशब्दः। आपिशलमधीते इत्यर्थे `तदधीते तद्वेदे' त्यणि `प्रोक्ताल्लुगि'ति लुप्ते स्त्रियामदन्तत्वाट्टापि आपिशलेति रूपम्। अनुपसर्जनादित्यस्य प्रातिपदिकविशेषणत्वे प्रोक्ताणन्तस्यानुपसर्जनत्वात्स्त्रियां वर्तमानत्वाच्च अणन्तत्वनिबन्धनो ङीब्दुर्वारः स्यात्। तस्य च श्रुतटिदाद्यन्वये तु प्रोक्ताऽण उपसर्जनत्वान्न दोषः। अध्येत्रण्तु लुप्तः, अणोयोऽकार इति व्याख्यानेन वर्णाश्रयतया प्रत्ययलक्षणाऽभावात्। नच स्त्रिया'मित्यस्य श्रुतटिदादिविशेषणत्वात्प्रोक्ताऽणश्चस्त्रियामवर्तनादेव न ङीपः प्रसक्तिरिति वाच्यं, ज्ञापिते तदन्तविधौ प्राधान्यात् `स्त्रिया'मित्यस्य ङीप्प्रकृतिविशेषणताया एव उचितत्वात्, अन्यथा अनुपसर्जनाधिकारवैयथ्र्याच्च। अतएव धीवानमतिक्रान्ता अतिधीवरीत्यादि सिद्धमित्यलम्। स्यादेतत्-`वच परिभाषणे'। अस्मात्कर्मणि, लृट्, `लृटः सद्वा' इति तस्य शानजादेशः, `स्यतासी लृलुटोः' इति स्यः कुत्वषत्वे, आने मुक्, णत्वम्, टाप्, वक्ष्यमाणेति रूपम्। अत्र लृडादेशस्य स्थानिवत्त्वेन टित्त्वादुगित्वाच्च `टिड्ढाणञि'ति `उगितश्चे'ति च ङीप् प्राप्नोति। नच स्थानिनो लृटष्टकारस्य ऋकारस्य च इत्त्वाश्रयणान्ङीब्विधेरल्विधित्वादनल्विधाविति निषेधः शङ्क्यः, `घुमास्थागापाजहातिसां हली'ति क्ङिति विहितस्य ईत्त्वस्य `न ल्यपी'ति निषेधेन लिङ्गेन अनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनात्। अनुबन्धकार्येऽप्यनल्विधाविति निषेधप्रवृत्तौ हि क्त्वादेशस्य ल्यपः कित्त्वाऽप्रसक्तेस्तस्मिन्परत ईत्वस्याऽप्रसक्त्या तन्निषेधवैयर्थ्यां स्पष्टमेव। अतो वक्ष्यमाणेत्यत्र स्थानिवत्त्वेन शानचष्टित्त्वादुगित्वाच्च ङीब्दुर्वार इत्याशङ्क्य परिहरति–वक्ष्यमाणेत्यादिना। वक्ष्यमाणेत्यत्र टित्त्वादुगित्वाच्च ङीप् प्राप्तो न भवतीत्यन्वयः। कुतो नेत्यत आह–यासुट इत्यादि, ज्ञापनादित्यन्तम्। `यासुट् परस्मैपदेषूदात्तो ङिच्चे'ति लिङादेशानां-तिप्तस्?झीत्यादिपरस्मैपदानां यासुडागमस्य ङित्त्वं विहितम्। `यदागमाः' इति न्यायेन यासुडागमो लिङादेशावयवः। ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटस्तद्विधिवैयथ्र्यं स्यादतो `लाश्रयमनुबन्धकार्यमादेशाना ने'ति विज्ञायते। ततश्च वक्ष्यमाणेत्यत्र लृडादेशस्य शानचष्टिदुगित्कार्ये ङीपि कर्तव्ये स्तानित्त्वाऽभावान्न ङीबित्यर्थः। ननु `लाश्रयमनुबन्धकार्यमादेशानां ने'ति ज्ञापनेऽपि ब्राऊतादित्यत्र `ब्राउव ईट्' इति पितो विधीयमान ईडागमो दुर्वारः। तस्य तिबाश्रयत्वे।ञपि लाश्रयत्वाऽभावेन तस्मिन्कर्तव्ये तातङः स्थानिवत्त्वेन पित्त्वस्य निर्बाधत्वादित्यस्वरसादाह–श्नः शानच इति। श्ना इत्यस्मात्षष्ठ\उfffदेकवचने आल्लोपे `श्न' इति रूपम्, `आतो धातोः' इत्यत्र `आत' इति योगविभागमाश्रित्य अधातोरपि क्वचिदाल्लोपाभ्युपगमात्। `हलः श्नः शानज्झौ' इति स्नाप्रत्ययस्य शानजादेशो विधीयते। तत्र स्थानिवत्त्वेनैव सिद्धत्वाच्छानचः शित्त्वं व्यर्थम्। नचानल्विधाविति निषेधः शङ्क्यः, `न ल्यपी'ति लिङ्गेनाऽनुबन्धकार्येऽनल्विधाविति निषेधाऽभावस्यानुपदमेवोक्तत्वात्। एवं च क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेधप्रवृत्तिर्विज्ञायते। तथाच वक्ष्यमाणेत्यत्र टिदुगित्कार्ये ङीपि `अनल्विधा'विति निषेधप्रवृत्त्या स्थानिवत्त्वाऽभावेन टित्त्वोगित्त्वयोरबावान्न ङीबित्यर्थः। वस्तुतस्तु `लाश्रयमनुबन्धकार्यं नादेशाना'मित्यत्र यासुटो ङित्त्वं न ज्ञापकं, तस्य तिप्सिब्मिवर्थत्वात्। नहि लिङादेशत्वेऽपि तिप्सिब्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम् , `हलः श्नः शानज्झौ' इति सूत्रे भाष्ये `ङिच्च पिन्न, पिच्च ङिन्ने'ति प्रपञ्चितत्वात्। तथा श्नश्शानचः शित्त्वमपि न लिङ्गं, तत्र शित्त्वस्य भाष्ये प्रत्याख्यातत्वात्। प्रत्युत शित्त्वस्य ज्ञापकत्वे `सेह्र्रपिच्चे'ति हेरपित्त्वस्य तातङो ङित्त्वस्य च वैयथ्र्यमिति भाष्ये दूषणाभिधानाच्च। तस्माद्वक्ष्यमाणेत्यत्र ङीबेव युक्तः, टाप् त्वसाधुरेव। अजादित्वाट्टाबिति वा कथञ्चित्समाधेयमित्यास्तां तावत्। स्त्रीत्यर्थे `स्त्रीभ्यो ढ'गिति ढकि `आयने'यित्येयादेशः। `यस्येति चे'तीकारलोपः, `किति चे'त्यादिवृद्धिः। सौपर्णेयशब्दान्ङीप्, `यस्येति चे'त्कारलोपः, सौपर्णेयीति रूपम्। न च `निरनुबन्धकग्रहणे न सानुबन्धकस्ये'ति परिभाषाया `शिलाया ढः' ढश्छन्दसि' इत्यनयोरेव ग्रहणमिति वाच्यं, तयोः स्त्रियामप्रवृत्तेरगत्या सानुबन्धकस्य ढस्य ग्रृहणादिति भाष्ये स्पष्टम्। ऐन्द्रीति। इन्द्रो देवता अस्या आमिक्षाया इति विग्रहः, `सास्य देवता' इत्यमि, `यस्येति चे'त्यकारलोपः, आदिवृद्धिः। ऐन्द्रशपब्दान्ङीप्, `यस्येति चे'त्यकारलोपः। इन्द्रस्येयमिति वा विग्रहः, `तस्येद'मित्यण्। औत्सीति। `उत्सः प्रस्नवणं वारि' इत्यमरः। ऋषिविशेषो वा उत्सः। उत्सस्येयमिति विग्रहः। `उत्सादिभ्योऽञ्'। `यस्येति ट'। ङीप्। उत्सस्यापत्यं स्त्री औत्सीति तु नोदाहरणम्, जातेरित्यनुवृत्तौ `शाङ्र्गरवाद्यञो ङी'नित्येव सिद्धेः, `गोत्रं च चरणैः सहे'त्यपत्यप्रत्ययान्तस्य जातित्वादित्यलम्। ऊरुद्वयसी ऊरुदघ्नी ऊरुमात्रीति। ऊरू प्रमाणमस्या इति विग्रहः। `प्रमाणे द्वयसच्दघ्नञ्मात्रचः'। ङीप्। पञ्चतयीति। पञ्च अवयवा यस्या इति विग्रहः। `सङ्ख्याया अवयवे तयप्'। ङीप्। आक्षिकीति। अक्षैर्दीव्यतीति विग्रहः। `तेन दीव्यति खनति जयति जित'मिति ठक्, आदिवृद्धिः, `ठस्येकः' `यस्येति चे'त्यकारलोपः। आक्षिकशब्दान्ङीप्, `यस्येति च'। लावणिकीति। लवणं पण्यमस्या इति विग्रहः। `लवणाट्ठञ्' ठस्येकः', आदिवृद्धिः, `यस्येति च', लावणिकशब्दान्ङीप्, `यस्येति च' ठेत्येव सिद्धे ठक्ठञोः पृथग्ग्रहणं तु ठनो ञिठस्य च व्यावृत्त्यर्थम्। दण्डोऽस्त्यस्याः दण्डिका। `अत इनिंठनौ'। काश्यां भवा काशिका। `काश्यादिभ्यष्ठञ्ञिठौ' इति ञिठः। यादृशीति। `त्यदादिषु दृशः' इति यच्छब्दे उपपदे कञ्, `आ सर्वनाम्नः' इति यच्छब्दस्याकारः। ङीप्, `यस्येति च'। इत्वरीति। `इण् गतौ' `इण्नशजिसर्तिभ्यः क्वरप् '। `ह्यस्वस्य पिति कृति' इति तुक्। इत्वरशब्दान्ङीप्। `यस्येति च'। `स्थेशभासे'ति वरचो व्यावृत्तये ककारानुबन्धग्रहणम्। `विन्यस्तमङ्गलमहौषधिरी\उfffदारायाः' इति भारविः। `सैनमी\उfffदाराप्रदह' इति वेदे। क्वरपि अन्यतरानुबन्धेनैव वरचो व्यावृत्तिसिद्धेरनुबन्धद्वयोपादानं स्पष्टार्थम्। ई\उfffदारी तु ई\उfffदारशब्दादी\उfffदारस्य स्त्रीति पुंयोग ङीष्। अथवा `अस्नोतेराशुकर्मणि वरट् चे'ति वरडन्ताट्ठित्त्वान्ङीप्। यद्वा `आतो मनिन्क्वनिब्वनिपश्च' अन्येभ्योऽपि `दृश्यते' इति क्वानिपि वनिपि च `वनो र चे'ति ङीब्राऔ। तस्मिन् णप्रत्यये सति तदन्तादपि ङीब्भवतीत्यर्थः। ज्ञेपकसिद्धमेतत्। तथाहि– `शील'मित्यनुवृत्तौ `छत्रादिभ्यो णः' इति विहिते णप्रत्ययेऽण्कार्यं भवति, `कार्मस्ताच्छील्ये' इति ज्ञापकात्। कर्म शीवमस्येति विग्रहे छत्रादित्वाण्णप्रत्यये `नस्तद्धिते' इति टिलोपे, `कार्म' इति भवति, नतु `अन्' इति सूत्रेण अण्यन् प्रकृत्या स्यादित्यर्थकेन प्रकृतिभाव इति तदर्थः। अत्र अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधात्ताच्छीलिके णुप्रत्ययेऽण्कार्यं विज्ञायते। अतस्ताच्छीलिकणप्रत्ययान्तादण्कार्यं ङीब् भवतीति भावः। चौरीति। चुरा शीलमस्या इति विग्रहः। छत्रादित्वाण्णः। आदिवृद्धिः। `यस्येति च'। चौरशब्दान्ङीपि, `यस्येति च'। ङीब्विधिवचनं कर्तव्यमित्यर्थः। नञादयश्चत्वारः। प्रत्ययाः, अतस्तदन्तविधिः। स्त्रौणी पौंस्नीति। `स्त्रीपुंसाभ्याम्' इति नञ्स्नञौ। तत्र स्त्रीशब्दान्नञि, आदिवृद्धिः, णत्वम्, ङीप्, `यस्येति च'। पुंस्शब्दात्स्नञि, आदिवृद्धिः, ङीप्, `यस्येति च'। शाक्तीकीति। शक्तिः-आयुधविशेषः प्रहरणमस्या इति विग्रहः। `शकिं?तयष्ठ\उfffदोरीकक्'। आदिवृद्धिः, णत्वम्, ङीप्, `यस्येति च'। आढ\उfffद्ङ्करणीति। अनाढ\उfffद् आढ्यः क्रियते अनयेति विग्रहः। `आढ\उfffद्सुभगे'त्यादिना ख्युन्। `युवोः' इत्यनादेशः। `अरुर्द्विषत्' इति मुम्, णत्वम्, ङीप्, `यस्येति च'। तरुणी तलुनीति। यद्यप्यनयोः `वयसि प्रथमे' इत्येव ङीप्सिद्धः, तथापि गौरादिषु पाठान्ङीषि प्राप्ते इदं वचनम्। गौरादिपाठान्ङीषि स्वरे विशेष इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्‍यात् । To denote the feminine gender, the affix ङीप् is used following a प्रातिपदिकम् which satisfies the following conditions:
(i) the प्रातिपदिकम् ends in a अकार:
(ii) the प्रातिपदिकम् ends in a non-secondary affix which is either टित् (has टकार: as a इत्) or is one of the following – ‘ढ’, ‘अण्’, ‘अञ्’, ‘द्वयसच्’, ‘दघ्नच्’, ‘मात्रच्’, ‘तयप्’, ‘ठक्’, ‘ठञ्’, ‘कञ्’ or ‘क्वरप्’।

Example continued from 3-2-16

निशाचर + ङीप् 4-1-15
= निशाचर + ई 1-3-3, 1-3-8, 1-3-9. ‘निशाचर’ gets the भ-सञ्ज्ञा here by 1-4-18
= निशाचर् + ई 6-4-148, 1-1-52 = निशाचरी

उपसर्जनत्वान्नेह – बहव: कुरुचरा यस्यां सा बहुकुरुचरा (नगरी)।