TBD.
अधिकारो ऽयम्। यदित ऊर्ध्वम् अनुक्रमिष्यामः आऽपञ्वमाध्यायपरिसमाप्तेः ङ्याप्प्रातिपदिकादित्येवं तद् वेदितव्यम्। स्वाऽदिषु कप्पर्यंतेषु प्रकृतिरधिक्रियते। ङीब्ङीष्ङीनां सामान्येन ग्रहणं ङी इति, टाब्डाप्चापाम् आपिति, प्रातिपदिकम् उक्तम् अर्थवत्, कृत्तद्धितसमासाश्च 1-2-46 इति, तेषां समाहारनिर्देशो ङ्याप्प्रातिपदिकातिति। यद्यपि च प्रत्ययपरत्वेन पारिशेष्यादियम् एव प्रकृतिर् लभ्यते, तथा अपि वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्संप्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं कर्तव्यम्, इतरथा हि समर्थविशेषणम् एतत् स्यात्। अथ ङ्याप्ग्रहणं किम्, न प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इत्येव सिद्धम्? न एतदस्ति। स्वरूपविधिविषये परिभाषेयं प्रातिपदिकस्वरूपग्रहणे सति लिङ्गविशिष्तग्रहणं भवति इति। तथा च युवा खलतिपलितवलिनजरतीभिः 2-1-67 इति ज्ञापकमस्यास्तादृशम् एव। किं च तदन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम्, कालितरा, हरिणितरा, खट्वातरा, मालातरा इति। विप्रतिषेधाद् धि तद्धितबलीयस् त्वं स्यात्।
TBD.
119
181 ङ्याप्प्रातिपदिकात्। चतुर्थाध्यायस्यादिमं सूत्रमिदम्। ङी च, आप् च, प्रातिपदिकं चेति समाहारद्वन्द्वः। ङी इति ङीप्?ङीष्ङीनां सामान्येन ग्रहणम्। आबिति टाप्?डाप्?चापां ग्रहणम्। प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम्। तदाह– ङ्यन्तादित्यादिना। `आ पञ्चमे'त्य वधिनियमे तु व्याख्यानमेव शरणम्। ननु प्रातिपदिकादित्येव सूत्र्यताम्। ङ्याब्ग्रहणं मास्तु। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहण'मिति परिभाषया ऊङप्रत्ययान्तात् \उfffदाश्रूशब्दादिव दण्डिनी अजा खट्?वेत्यादिभ्योऽपि ङ्याबन्तेभ्यः सुबादिप्रत्ययसम्भवादित्यत आह– प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीति। स्त्रीलिङ्गबोधकङीबादिप्रत्ययविशिष्टस्येत्यर्थः। यथा स्यादिति। यथेति योग्यतायाम्। ङ्याबन्तादेव तद्धितः प्राप्तुं योग्यः। स च ङ्याब्ग्रहणे सत्येव स्यादित्यर्थः। व्यवच्छेद्यं दर्शयति-ङयाब्भ्यां प्राङ्भाभूदिति। ततश्च लोहनिका आर्यका च सिध्यति। तथाहि–लोहितशब्दस्तावत् `वर्णाना तणतिनितान्तानाम्' इति फिट्?सूत्रेणाद्युदात्तः। ततश्च ओकार उदात्तः। `अनुदात्तं पदमेकवर्ज'मिति परिशिष्टौ इकारा।ञकारावनुदात्तौ। तथाच `वर्णादनुदात्तात्तोपधात्तो नः' इत#इ मणौ विद्यमानाल्लोहितशब्दात्स्त्रीत्वविवक्षायां ङीप्, तत्संनियोगेन तकारस्य नकारादेशश्च प्राप्तः। `लोहितान्मणौ' इति स्वार्थिकः कनपि प्राप्तः। तत्र स्वार्थिकत्वादन्तरङ्ग परश्च कन् नत्वसंनियोगशिष्टं ङीपं बाधित्वा प्रवर्तेत। ततश्च ङीपो न प्रसक्तिः। कोपधत्वेन तोपधत्वाऽभावात्। ततश्च लोहितकशब्दात् `अजाद्यतः' इति टापि `प्रत्ययस्था'दित्यादिना इत्वे लोहितिकेत्येव स्यात्, न तु लोहिनिकेति। इष्यते तु रूपद्वयमपि। `ङ्याप्प्रातिपदिका'दित्यत्र ङीब्ग्रहणे तु तत्सामथ्र्यादन्तरङ्गं परमपि कनं बाधित्वा नत्वसंनियोगशिष्टे ङीपि कृते, लोहिनीशब्दात्कनि, `केऽणः' इति ह्यस्वे, लोहिनिकेति रूपम्। `वर्णादनुदात्ता'दित्यस्य वैकल्पिकतया नत्वसंनियोगशिष्टङीबभावे तु लोहिताशब्दात्कनि, ह्यस्वे, पुनः कान्ताट्टापि, प्रत्ययस्थादितीत्वे लोहितिकेत्यपि सिध्यति। तथा आर्यशब्दात्स्वार्थिके कनि, समुदायोत्तरटापैव स्त्रीत्वबोधनसम्भवादेकाज्द्विर्वचनन्यायेन कनन्तादेव टापि, कनः पूर्वं टाबभावात्, आत्स्थानिकस्य अतोऽभावादुदीचामातःस्थाने इति इत्वविकल्पस्याऽप्रवृत्तौ, प्रत्ययस्थादिति नित्यमित्वे आर्यिकेत्येव स्यात्, आर्यकेति न स्य#आत्। इष्यते तूभयमपि। `ङ्याप्प्रातिपदिका'दित्यत्र आब्ग्रहणे तु तत्सामथ्र्यात्स्वार्थिकं कनं बाधित्वा टापि, ततः कनि, `केऽण' इति ह्यस्वे, पुनः कनन्ताट्टापि , `उदीचामातः स्थाने' इतीत्वविकल्पे रूपद्वयं सिध्यति। वस्तुतस्तु ङ्यापोग्र्रहणं मास्तु, सुबन्तादेव तद्धितोत्पत्तिः। सुपः प्रागेव च ङ्यापौ प्रवर्तेते। स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकत्वात्। तथाहि- स्वार्थः=प्रवृत्तिनिमित्तं जात्यादि। तज्ज्ञानं पूर्वं भवति, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात्। ततस्तदाश्रयज्ञानम्, धर्मित्वेन प्रधानत्वाल्लिङ्गादिभिराकाङ्क्षितत्वाच्च। ततः स्वमात्रापेक्षत्वाल्लिङ्गस्य ज्ञानम्। ततो विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्ख्याज्ञानम्। ततः कारकरूपविभक्त्यर्थापेक्षा भवति। तन्निवृत्तौ कुत्सादिज्ञानमिति कुत्सित इति सूत्रभाष्ये स्थितम्। शब्दरत्ने च परिष्कृतमेतत्।
150 ङ्याप्प्रातिपदिकात्। समाहारद्वन्द्वादेकवचनम्। `ङी'ति ङीप्ङीष्ङीनां सामान्यग्रहणम्। `आ'विति च टाप्डाप्चापाम्। आपञ्चमपरिसमाप्तेरिति। ननु `घकालतनेषु'–इति ज्ञापकात्सुबन्तात्तद्धितोत्पत्तिरित्यभ्युपगतेः किमर्थस्तद्धितेषु प्रातिपदिकाधिकार इति चेदत्राहुः–असति त्वधिकारे `अत इ'ञित्यत्राऽत इत्येतत्सुबन्तस्यैव विशेषणं स्यात्, ततश्च दक्षस्यापत्यमित्यत्रैव इञ्स्यान्न तु दक्षयोर्दक्षाणामित्यत्र। किञ्च `वद्धाच्छः' इत्यत्र `वृद्ध'- मित्येतत्सुबन्तविशेषणं मा भूत्। अन्यथा जानन्तीति ज्ञाः, `इगुपधे'तु कः। `ज्ञानामय'मित्यत्र सुबन्तस्य वृद्धत्वाच्छो न भवति, किन्त्वणेव भवति। शब्दकौस्तुभे त्वसत्यस्मिन्नधिकारे वाक्यादपि कप्रत्ययादयः स्युः। ततो विशिष्यस्य प्रातिपदिकतया [सकल]सुब्लोपे स्पष्टमेवानिष्टमिति स्थितम्। लिह्गविसिष्टस्येति। लिङ्गबोधकप्रत्ययविशिष्टस्यापीत्यर्थः। परिभाषायाः प्रयोजनः-\उfffदाश्रूः। प्रत्ययान्तत्वेनाऽप्रातिपदिकत्वेऽपि इह स्वादयः। न च `\उfffदाशुरः \उfffदा\उfffदो'ति निर्देशादेव स्वादिसिद्धिरिति वाच्यम्। निर्देशस्य शब्दपरत्वात्। `विपाराभ्यां जेः'`ङेर्यः' इतिवत्। किंच कुमारीमाचष्टे कुमारयति। `णाविष्ठव'दिति टिलोपः। एवं यामिन्य इवांचरन्ति अहानि `यामिनयन्ती'त्यत्राचारे क्विबपि फलम्। ङ्याब्भ्यां प्रागिति। तेन `एनिका' `आर्यका' च सिध्यति। तथाहि `न सामिवचने' इति ज्ञापयिष्यमाणोऽत्यन्तस्वार्थिकः क एतार्याशब्दाभ्यां ङ्यापौ बाधेत, ततश्च `एतिका' `आर्यिके'त्येव रूपं स्यात्। ङ्याब्ग्रहणसामथ्र्यात्तु ङीबन्तात्कनि `एनिके'-त्यपि सिध्यति। `वर्णादनुदात्ता'दित्यस्य वैकल्पिकत्वात्। आबन्तात्कनि तु `उदीचामातः स्थाने' इतीत्त्वविकल्पादार्यका आर्यिकेति रूपद्वयं सिध्यति। वस्तुतस्तु ङ्यापोग्र्रहणं मास्तु, `घकालतनेषु'– इत्यलुग्विधानसामथ्र्यात्सुबन्तात्तद्धितोत्पत्तिरिति हि निष्कर्षः। तथा च सुपः प्रागेव ङ्यापौ प्रवर्तेते। स्वार्थद्रव्यलिङ्गसङ्ख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्वीकारादित्यवधेयम्।
42) ङ्याप्प्रातिपदिकात् 4-1-1
वृत्ति: अधिकारोऽयम् – आपञ्चमाध्यायसमाप्ते: । This rule sets the topic for the section from 4-1-1 to the end of the fifth chapter. So for all the affixes listed in this section the base should be either a term ending in the feminine affix ङी or आप्; or it should be a प्रातिपदिकम्.
गीतासु उदाहरणम् – श्लोकः bg18-32
तामसी + सुँ – since तामसी is term ending in the feminine affix ङी, it can take the declension affix सुँ
आवृता + सुँ – since आवृता is term ending in the feminine affix आप्, it can take the declension affix सुँ
Note: In the both the above examples the स् of सुँ drops by 6-1-68
बुद्धि + सुँ – since बुद्धि is a प्रातिपदिकम्, it can take the declension affix सुँ