Table of Contents

<<2-1-66 —- 2-1-68>>

2-1-67 युवा खलतिपालितवलिनजरतीभिः

प्रथमावृत्तिः

TBD.

काशिका

खलत्यादिभिः। समानाधिकरणैः सह युवशब्दः समस्यते, तत्पुरुषश्च समासो भवति। जरतीभिः इति स्त्रीलिङ्गेन निर्देशः, प्रातिपादिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहनम् इति ज्ञापकार्थः। युवा खलतिः युवखलतिः। युवतिः खलती युवखलती। युवा पलितः युवपलितः। युवतिः पलिता युवपलिता। युवा वलिनः युववलिनः। युवतिर्वलिना युववलिना। युवा जरन् युवजरन्। युवतिर्जरती युवजरती।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

738 युवा खलति। युवन्शब्दः खलत्यादिभिः समानाधिकरणैः समस्यते, स तत्पुरुष इत्यर्थः। विशेषणसमासेन सिद्दे किमर्थमिदमित्यत आह–पूर्वेति। युवन्शब्दस्य खलत्यादिशब्दानां च गुणवाचित्वाद्विशेषणत्वे कामचारात्पूर्वनिपातस्याऽनियमे प्राप्ते तन्नियमार्तमिदं सूत्रमित्यर्थः। खलतिः=केशहीनशिराः। `पलितं जरसा शौक्लयं' `वलिनो वलिभः समौ' इत्यमरः। युवखलतिरिति। अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नलोपः। ननु युवेति पुंलिङ्गनिर्देशात् कथं युवतिशब्दस्य समास इत्यत आह–लिङ्गविशिष्टेति। युवखलतीति। `पुंवत्कर्मधारये'ति पुंवत्त्वम्। युवजरतीति। जरती=वृद्धा। युवतिश्चासौ जरती चेति विग्रहः। `पुंवत्कर्मधारये'ति पुंवत्त्वम्। ननु युवतिः कतं जरती स्यादित्यत आह–युवत्यामेवेति।

तत्त्वबोधिनी

653 युवखलतीति। `कृदिकारादक्तिनः'इति ङीष्। `पुंवत्कर्मधारये'ति युवतिशब्दस्य पुंवद्भावः। जरतीति। `जीर्यतीति। `जीर्यतेरतृन्'`उगितश्चे'ति ङीष्। एवं युवपलितः युववलिन इत्युदाहार्यम्। वलिनशब्दः पामादिः।

Satishji's सूत्र-सूचिः

TBD.