Table of Contents

<<3-4-116 —- 1-1-1>>

3-4-117 छन्दस्युभयथा

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि विषये उभयथा भवति, सार्वधातुकम् आर्धधातुकं च। किं लिङेव अनन्तरः सम्बध्यते? न एतदस्ति, सर्वम् एव प्रकरणम् अपेक्ष्यैतदुच्यते। तिङ्शिदादि छन्दस्युभयथा भवति। वर्धन्तु त्वा सुष्टुतयः। आर्धधातुकत्वाण् णिलोपः। वर्धयन्तु इति प्राप्ते। शेषं च सार्वधातुकम् स्वस्तये नावमिवारुहेम। क्तिनः सार्वधातुकत्वादस्तेर् भूभावो न भवति। लिट् सार्वधातुकम् ससृवांसो विशृण्विरे। इम इन्द्राय सुन्विरे। लिङुभयथा भवति। उप स्थेयाम शरणा वृहन्ता। सार्वधातुकत्वात् लिङः सलोपः, आर्धधातुकत्वातेत्वम्। व्यत्ययो बहुलम् 3-1-85 इत्यस्य एव अयं प्रप्ञ्चः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य चतुर्थः पादः। चतुर्थो ऽध्यायः प्रथमः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.