TBD.
परिभाषेयम्। यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो विदितव्यः। विधीयते इति विधिः। पदानां विधिः पदविधिः। स पुनः समासादिः। समर्थः शक्तः। विग्रहवाक्यार्थभिधाने यः शक्तः स समर्थो विधितव्यः। अथ वा समर्थपदाश्रयत्वात् समर्थः। समर्थनां पदानां सम्बद्धार्थानां संसृष्टार्थानां विधिर्वेदितव्यः। वक्ष्यति, द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽपन्नैः 2-1-24 कष्टं श्रितः कष्टश्रितः। समर्थग्रहणं किम्? पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलम्। तृतीया तत्कृतार्थेन गुणवचनेन 2-1-30 शङ्कुलया खण्डः शङ्कुलाखण्डः। समर्थग्रहणं किम्? किं त्वं करिष्यसि शङ्कुलया, खण्डो देवदत्त उपलेन। चतुर्थी तदर्थार्थवलिहितसुखरक्षितैः 2-1-36 यूपाय दारु यूपदारु। समर्थग्रहणं किम्? गच्छ त्वं यूपाय, दारु देवदत्तस्य ग्रेहे। पञ्चमी भयेन 2-1-37 वृकेभ्यो भयं वृकभयम्। समर्थग्रहणं किम्? गच्छ त्वं मा वृकेभ्यो, भयं देवदत्तस्य यज्ञदत्तात्। षष्ठी 2-2-8 राज्ञः पुरुषः राजपुरुषः। समर्थग्रहणं किम्? भार्या राज्ञः, पुरुषो देवदत्तस्य। सप्तमी शौण्डैः 2-1-40 अक्षेषु शौण्डः अक्षशौण्डः। समर्थग्रहणं किम्? शक्तस्त्वं अक्षेषु, शौण्डः पिबति पानागारे। पदग्रहणं किम्? वर्णविधौ समर्थपरिभाशा मा भूत्। तिष्ठतु दध्यशान त्वं शाकेन। तिष्ठतु कुमारी च्छत्रं हरदेवदत्तात्। यणादेशो, नित्यश्च तुग् भवति।
TBD.
907 पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः..
639 अथ समासेष्वव्ययीभावः। तदेवं विभक्त्यर्थं निरूप्य तदाश्रितसमासान्निरूपयिष्यंस्तदुपोद्धातत्वेनाह समर्थः पदविधिः। विधीयते इति विधिः-कार्यम्। पदस्य विधिः पदविधिरिति शेषषष्ठ\उfffदा समासः। तदाह-पदसंबन्धी यो विधिरिति। समर्ताश्रित इति। सूत्रे समर्थशब्दः समर्थाश्रिते लाक्षणिक इति भावः। सामथ्र्यं द्विविधम्-व्यपेक्षालक्षणमेकार्थीभावलक्षणं च। तत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परस्परान्वयस्तद्व्यपेक्षाभिधं सामथ्र्यम्, विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पत्तेः। संबद्धार्थः समर्थ इति व्युत्पत्तेश्च। इदं च राज्ञः पुरुष इत्यादिवाक्य एव भवति। तत्र च एकैकस्य शब्दस्य यो यः संनिहितो योग्यश्च तेन तेनान्वयो भवति। यथा राज्ञः पुरुषोऽ\उfffदाश्चेति, राज्ञो देवदत्तस्य च पुरुष इति, ऋद्धस्य राज्ञः पुरुष इति च। एकार्थीभावलक्षणसामथ्र्यं तु प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन पृथग्गृहीतानां पदानां समुदायशक्त्या विसिष्टैकार्थप्रतिपादकतारूपम्। `सङ्गतार्थः समर्थः', `संसृष्टार्थः समर्थ' इति व्युत्पत्तेः। सङ्गतिः संसर्गश्च एकीभाव एव। यथा-सङ्गतं घृतं तैलेनेति। एकीभूतमिति गम्यते। यथा वा संसृष्ट#ओऽग्निरिति। एकीभूत इति गम्यत इति भाष्याच्च। इदंच सामथ्र्यं राजपुरुष इत्यादिवृत्तावेव। अत एव `ऋद्धस्य राजपुरुष' इत्येवं राज्ञि पुरुषविशेषणे ऋद्धत्वविशेषणं नान्वेति, विशिष्टस्य एकपदार्थतया राज्ञः पदार्थैकदेशत्वात्। `देवदत्तस्य गुरुकुल'मित्यत्र तु उपसर्जनस्य नित्यसापेक्षत्वात्समासः। यद्वा गुरुवद्देवदत्तोऽपि विशेष्ये प्रदाने कुल एवान्वेति। तत्र गुरुणा कुलस्य उत्पाद्यत्वसंबन्धेनान्वयः। देवदत्तेन तु कुलस्य तदीयगुरूत्पाद्यतयाऽन्वयो गुरुगर्भः। उक्तं च हरिणा-`संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते। वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते।' इति। समुदायेन संबन्धो येषां गुरुकलादिना। संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह।' इति च।\र्\नेतेन `अयश्शूल' इति सूत्रे भाष्ये `शिवस्य भगवतो भक्तः' इत्यर्थे `शिवभागवतः' इत्यादि व्याख्यातम्। एकार्थीभावश्चाऽयमलौकिकविग्रहवाक्ये कल्प्यते। यथा लादेशभूतशतृशानचोरप्रथमासामानाधिकरण्यं लकारेऽपि कल्प्यते तद्वत्। अत एव `लस्य अप्रथमासमानाधिकरणेनार्थेनाऽयोगादादेशानुपपत्तिः, तस्य क्वापि प्रयोगाऽभावा'दि त्याक्षिप्य `आदेशे सामानाधिकरण्यं दृष्ट्वा अनुमानाद्गन्तव्यं प्रकृतेरपि तद्भवति ' इति `लटश्शतृशानचौ' इति सूत्रभाष्ये समाहितम्। `सिद्धानां शब्दानामन्वाख्यानात् पचन्तं देवदत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लस्य प्रक्रियार्थं कल्पितस्य बोधकत्वकल्पना सूचिता। अलोकिकविग्रहवाक्ये श्रूयमाणानां च शब्दानां क्लृप्तशक्तित्यागे मानाऽभावात् प्रत्येकशक्तिसहकृतया समुदायशक्त्या विशिष्टोपस्थितिः। ततश्च ?यमेकार्थीभावोऽजहत्स्वार्था वृत्तिरिष्यते। वृत्तिविषये पदानां प्रत्येकमनर्थकत्वमाश्रित्य जहत्स्वार्था वृत्तिस्तु नाश्रयितुं युक्ता, महाबाहुः, सुपन्था इत्यादौ आत्त्वाद्यनापत्तेः, वृत्तौ महादादिशब्दानामनर्थकत्वादर्थवद्ग्रहणसंभवे अनर्थकस्य `आन्महतः' इत्यादौ ग्रहणाऽयोगात्। तदुक्तम्–`जहत्स्व#आर्था तु तत्रैव यत्र रूढिर्विरोधिनी' इति। अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सेति तदर्थः। यथा अ\उfffदाकर्णमण्डपादौ। विस्तरस्तु शब्देन्दुशेखरे मञ्जूषायां चानुसंधेयः। समर्थः किम् ?। पश्य कृष्णं, श्रितो रामं मित्रम्। अत्र कृष्णश्रितयोः परस्परान्वयाऽभावाद्विशिष्टैकार्थोपस्थित्यजनकत्वान्न सामथ्र्यम्।
567 समर्थः पदविधिः। सामथ्र्यं च द्विविधं–व्यपेक्षालक्षणमेकार्थीभावलक्षणं चेति। तत्र स्वार्थपर्यवसायिना पदानामाकाङ्क्षादिवशाद्यः परस्परसंबन्धः सा व्यपेक्षा। सैव वाक्ये राज्ञः पुरुष इत्यादौ। तत्प व्यपेक्षायां सत्यां यो यः संनिहितो योग्यश्च तेन तेन संबन्धोऽभ्युपेयते। यथा राज्ञः पुरुषोऽ\उfffदाश्च। राज्ञो देवदत्तस्य च पुरुष इति। एकर्थीभावस्तु राजपुरुष इत्यादिवृत्तावेव। स च प्राक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थत्वरूपः। अतएव राजपुरुष इत्यत्र राज्ञि ऋद्धस्येति विशेषणं नान्वेति, पदार्थैकदेशत्वात्। न चैवं देवदत्तस्य गुरुकुलमित्यादावनन्वयापत्तिः, तत्रापि देवदत्तोत्तरषष्ठ\उfffद्र्थस्य गुरुणाऽन्वयादिति वाच्यम्। देवदत्तस्य प्रधानीभूतकुलैनैवान्वयात्। संबन्धस्तूपस्थितगुरुद्वारक एव षष्ठ\उfffद्र्थो, न तु तदितरः। उक्तं च—`समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृश्यवयवांस्ते तु युज्यन्ते तद्वता सह'। इति। यद्वा—ससंबन्धिकपदार्थस्यैकदेशत्वेऽपि भवत्येव विशेषणान्वयः। उक्तं च— `संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते। वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते' इति। नन्वेवं राज्ञोऽपि नित्यसापेक्षत्वादेशत्वेऽपि ऋद्धस्येति विशेषणेनान्वयोऽस्तचु। मैवम्। राज्ञ ईशितुरीशितव्यं प्रति साकाङ्क्षत्वेऽपि ऋद्धं प्रत्यनाकाङ्क्षत्वात्। ननु वाक्ये क्लृप्तयैवाऽवयवशक्त्योपपत्तौ विशिष्ट वचनैरेव साधने। स्यान्मदद्गौरवं तस्मादेकार्थीभाव आस्थितः। चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम्। कर्तव्यं ते, न्यायसिद्धं त्वस्माकं तदिति स्थितम्'। तथाहि—धवखदिराविति वृत्त्यैव क्रीडीकृतार्थत्वाच्चकारो न प्रयुज्यते, तथा चित्रग्वादौ यत्पदम्। त्वया तु वचनं कर्तव्यम्। निरूढलक्षणा तु शक्तितो नातीव भिद्यते। किंच प्राप्तमुदकं यमिति व्यस्ते समीचीनमुदकमिति विशेषणत्समस्तेऽपि उदकविशेषणप्रयोगः[समासघटव पदार्थानां]प्राप्तः, स च `वृत्तस्य विशेषणयोगो न' इति वचनेनैव वारणीयः, `नामार्थयोरभेदान्वयः', `प्रत्ययार्थः प्रधानम्'इति व्युत्पत्तित्यागश्च। `प्राप्तोदक' इत्यादौ उदकर्तृकप्राप्तिकर्मेत्यचाद्यर्थाभ्युपगमात्। एकार्थीभावे तु लाघवमिति दिक्। पदग्रहणं किम्?। वर्णविधौ समर्थपरिभाषा मा भूत्। तिष्ठतु दध्यानय तक्रम्। इह स्यादेव यण्। विधिग्रङणं तु पदस्य विधिः पदयोर्विधिः पदानां विधिरित्यनेकविभक्तयन्तसमासलाभार्थम्। पदस्येत्युक्तौ तु `उपपदमतिङ्' इत्यादावेवास्योपस्थितिः स्यादित्याहुः। सूत्रे समर्थशब्दो लाक्षणिक इति ध्वनयन्नाह–समर्थाश्रित इति। समर्थेति किम्?। पश्यति कृष्णं, श्रितो देवदत्तमित्यादौ कृष्णश्रित इत्यादि समासो मा भूत्। यथा वस्त्रमुपगोरपत्यं चैत्रस्येत्यत्र `तस्यापत्यम्' इत्युपगुशब्दादण्मा भूदिति। क्वचित्तु सापेक्षत्वेऽपि भाष्यप्रामाण्याद्वृत्तिरङ्गीक्रियते। तद्यथा—`किमोदनः शालीनाम्'। केषां शालीनामोदन इत्यर्थः। सक्त्वाढकमापणीयानाम्'। आपणीयानां सक्तूनामाढकमित्यर्थः। `कृतो भवान्पाटलिपुत्रकः'। द्वे पाटलिपुत्रे, तत्र कस्मात्पाटलिपुत्राद्भवानागत इत्यर्थः। `रोपधेतोः प्राचाम्' इति वुञ्।
TBD.