Table of Contents

<<2-1-2 —- 2-1-4>>

2-1-3 प्राक् कडारात् समासः

प्रथमावृत्तिः

TBD.

काशिका

कडारसंशब्दनात् प्राग् यानित उर्ध्वम् अनुक्रमिष्यामः, ते समाससंज्ञा वेदितव्याः। वक्ष्यति यथा ऽसादृश्ये (2-1-7)। यथा वृद्धं ब्राह्मणानामन्त्रयस्व। प्राग्वचनं संज्ञासमावेशार्थम्। समासप्रदेशाः तृतीयासमासे (1-1-30) इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

908 कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते ॥

सिद्धान्तकौमुदी

<< 2-1-12-1-4 >>
६४८ ’कडाराः कर्मधारये’ (सू ७५१ 2-2-38) इत्यतः प्राक् समास इत्यधिक्रियते ॥

बालमनोरमा

640 प्राक्कडारात्। `आकडारात्' इत्येव `प्रा'गिति सिद्धे प्राग्ग्रहणमेकसञ्ज्ञाधिकारेपि अव्ययीभावादिसंज्ञासमुच्चयार्थमिति भाष्ये स्पष्टम्। सम्पूर्वकस्य अस्यतेरेकीकरणात्मकऋ संश्लेषोऽर्थः। समस्यते अनेकं पदमिति समासः। `अकर्तरि च कारके संज्ञाया'मिति कर्मणि घञ्। अत एव मूले समस्यते इति वक्ष्यते। तथा च अन्वर्थेयं संज्ञा।

तत्त्वबोधिनी

568 प्राक्कडारात्समासः। प्राग्ग्रहणमावर्तते, तेन पूर्वं समाससंज्ञा, ततः संज्ञान्तरमपीति लभ्यते। अतोऽव्ययीभावादिभिः समावेशः सिद्ध्यति। अन्यथा पर्यायः स्यात्। समसनं समासः। भावे घञ्। अनेकस्य पदस्य एकपदीभवनमित्यर्थ इत्येके। वस्तुतस्तु–`अकर्तरि च कारके—' इति कर्मणि घञ्। अन्यथा सुबन्तं समस्यत इत्युत्तरग्रन्थो न सङ्गच्छेत। नन्वन्वर्थत्वात्समाससंज्ञायाः प्रत्येतमप्रसङ्गात्सहग्रहणं व्यर्थमित्याशङ्क्याह—।

Satishji's सूत्र-सूचिः

TBD.