Table of Contents

<<2-1-1 —- 2-1-3>>

2-1-2 सुबामन्त्रिते पराङ्गवत् स्वरे

प्रथमावृत्तिः

TBD.

काशिका

सुबन्तम् आमन्त्रिते परतः परस्य अङ्गवद् भवति, स्वरे स्वरलक्षणे कर्तव्ये। तादात्म्यातिदेशो ऽयम्। सुबन्तम् आमन्त्रितम् अनुप्र्विशाति। वक्ष्यति आमन्त्रितस्य च 6-1-198। आमन्त्रितस्यादिरुदात्तो भवति। ससुप्कस्य अपि यथा स्यात्। कुण्डेनाटन्। परशुना वृश्चन्। मद्राणाम् राजन्। कश्मीराणां राजन्। सुपिति किम्? पीड्ये पीद्यमान। आमन्त्रिते इति किम्? गेहे गार्ग्यः। परग्रहणम् किम्? पूर्वस्य मा भूत्। देवदत्त, कुण्डेनाटन्। अङ्गग्रहणं किम्? यथा मृत्पिण्डीभूतः स्वरं लभेत। उभयोराद्यौत्तत्वं मा भूत्। वत्करणं किम्? स्वाश्रयम् अपि यथा स्यात्। आम् कुण्डेनाटन्। आम एकान्तरम् आमन्त्रितम् अनन्तिके 8-1-55 इत्येकान्तरता भवति। स्वरे इति किम्? कूपे सिञ्चन्। चर्म नमन्। षत्वणत्वे प्रति पराङ्ग्वद् न भवति। सुबन्तस्य पराङ्गवद् भावे समानाधिकरणस्य उपसङ्ख्यानम् अनन्तरत्वत्। तीक्ष्णया सुच्या सीव्यन्। तीक्ष्णेन प्रशुना वृश्चन्। अव्ययानां प्रतिषेधो वक्तव्यः। उच्चैरधीयानः। नीचैरधीयानः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.