Table of Contents

<<2-1-35 —- 2-1-37>>

2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः

प्रथमावृत्तिः

TBD.

काशिका

सुप् सुपा इति वर्तते। तस्य विशेषणम् एतत्। ततिति सर्वनाम्ना चतुर्थ्यन्तस्य अर्थः परामृश्यते। तस्मै इदं तदर्थम्। तदर्थ अर्थ बलि हित सुख रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। तदर्थेन प्रकृतिविकारभावे समासो ऽयम् इष्यते। यूपाय दारु यूपदारु। कुण्ड्लाय हिरण्यम् कुण्डलहिरण्यम्। इह न भवति, रन्धनाय स्थली, अवहननाय उलूखलम् इति। तादर्थ्ये चतुर्थी च अस्मादेव ज्ञापकाद् भवति। अर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या। ब्राह्मणार्थं पयः। ब्राह्मणार्था यवागूः। बलि कुबेराय बलिः कुबेरबलिः। महाराजबलिः। हित गोहितम्। अश्वहितम्। सुख गोसुखम्। अश्वसुखम्। रक्षित गोरक्षितम्। अश्वरक्षितम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

930 चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यंन्तं वा प्राग्वत्. यूपाय दारु यूपदारु. (तदर्थेन प्रकृतिविकृतिभाव एवेष्टः). तेनेह न - रन्धनाय स्थाली. अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्. द्विजार्थः सूपः. द्विजार्था यवागूः. द्विजार्थं पयः. भूतबलिः. गोहितम्. गोसुखम्. गोरक्षितम्..

बालमनोरमा

तत्त्वबोधिनी

611 चतुर्थी तदथार्थ। तच्छब्देन प्रकृता चतुर्थी परामृश्यते, प्रत्ययग्रहमम्, चतुथ्र्यन्तेन सामथ्र्यात्तदर्थो लक्ष्यते इत्याशयेनाह–चतुथ्र्यन्तार्थय यदिति। चतुथ्र्यन्तवाच्याय यूपाय यद्दार्वादि, तद्वाचिना चतुथ्र्यन्तं समस्यत इत्यर्थः। बलिरक्षितग्रहणादिति। हितसुखग्रहणं तु न ज्ञापकं, तग्योगे चतुर्थी चाशिषीत्यतादर्थ्येऽपि चतुर्थीसमभवादिति भावः। ननु `चतुर्थी चाशिषी'ति वहिता या चतुर्थी तदन्तस्य समासो न भवति, समासादाशिषोऽनवगमादिति केचिदाहुरिति कैयटेनोक्तम्।ततश्च तत्पक्षे हितसुखग्रहणमपि बलुरक्षितग्रहणवज्ज्ञापकमेवेति चेत्, अत्र नव्याः–`ब्राआहृणहितम्। गोहितम्। गोसुखमित्यतादथ्र्यचतुथ्र्यन्तेनापि समा4सः स्वीक्रियते। सा चाऽतादथ्र्यचतुर्थी `हितयोगे चे'ति वार्तिका `चतुर्थी तदर्थे' त्यादिना हितसुओखशब्दाभ्यां समासविधानज्ज्ञापकाद्वा सम्भवतीति हितसुखग्रहणं न ज्ञापकमिति सम्यगेवेत्याहुः। यूपायेति। तादर्थ्ये चतुर्थी। एवमग्रेऽपि यथासंभवमूह्रम्। अ\उfffदाघासादय इति। एतच्च भाष्यकृतोक्तम्। नन्वेवं `रन्धनाय स्थाली' त्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृति विकृतिभाव एवेति नियमो निष्पल एव। न च स्वरे विशेषः, `चतुर्थी तदर्थे'इति पूर्वपदकृतिस्वरस्यापि प्रकृति विकृतभाव एवेष्यमाणत्वात्। अत्राहुः– `संबन्धत्वातादथ्र्यकृतवैलक्षण्येनोक्तनियमसाफल्यान्न दोषः। अत्र च मानमेतदेव भाष्यम्। `न माषाणामश्रीयात्', `दाशरथाय मैथिली'त्यादिप्रयोगा अपीत्थमेव विवक्षाभेदेन निर्वाह्राः। एवंच `पूर्वसदृशे'ति सूत्रे सदृशग्रहणं व्यर्थमिति कैयटहरदत्तादीनामुक्तिः प्रामादिकीत्यवधेयम्। शाब्दबोधकृतवैलक्षण्यस्य तत्रापि सत्त्वादिति।\र्\नर्थे नित्यसमासो विश्षेयलिङ्गता चेति वक्तव्यम्। अर्थेन नित्येति। अन्यथा विभाषाधिकारात्पक्षे `द्विजायार्थ'इति प्रयोगः स्यादिति भावः। विशेष्यलिङ्गता चेति। वचनाऽभावे त्वर्थशब्दस्य नित्यपुंस्त्वात् `परवल्लिङ्ग'मिति सर्वत्र पुँल्लिङ्गप्रयोग एव स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.