Table of Contents

<<2-2-7 —- 2-2-9>>

2-2-8 षष्ठी

प्रथमावृत्तिः

TBD.

काशिका

षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। राज्ञः पुरुषः राजपुरुषः। ब्राह्मणकम्बलः। कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्। इध्मप्रब्रश्चनः। पलाशशातनः। किम् अर्थम् इदम् उच्यते? प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

934 सुबन्तेन प्राग्वत्. राजपुरुषः..

बालमनोरमा

693 षष्ठी। षष्ठ\उfffद्न्तं सुबन्तेन समस्यते, स तत्पुरुष इत्यर्थः। राजपुरुष इति। राजन् अस् पुरुष स् इत्यलौकिकविग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनीं विभकिं?त प्रत्ययलक्षणेनाश्रित्य नलोपः। नच लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यं, पदत्वस्य सुब्घटितसमुदायधर्मत्वेन तस्याऽङ्गकार्यत्वाऽभावादिति भावः।

तत्त्वबोधिनी

615 राजपुरुष इति। राजन् अस्–पुरुष सु इत्यलौकिकविग्रहे समासे कृते सुपो लुक्यन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्न लोपः।

Satishji's सूत्र-सूचिः

TBD.