Table of Contents

<<7-2-83 —- 7-2-85>>

7-2-84 अष्टन आ विभक्तौ

प्रथमावृत्तिः

TBD.

काशिका

अष्टनो विभक्तौ परतः आकारादेशो भवति। अष्टाभिः। अष्टाभ्यः। अष्टानाम्। अष्टासु। विभक्तौ इति किम्? अष्टत्वम्। अष्टता। आ इति व्यक्तिनिर्देशो ऽयम्। आकृतिनिर्देशे तु नकारस्थने ऽनुनासिकाकारः स्यात्। विकल्पेन अयम् आकारो भवति, एतज् ज्ञापितम् अष्टनो दीर्घात् 6-1-172) इति दीर्घग्रहणात्, अष्टाभ्य औश् (*7,1.21 इति च कृतात्वस्य निर्देशात्। तेन अष्टभिः, अष्टभ्यः इत्यपि भवति। तदन्तविधिश्च अत्र इष्यते। प्रियाः अष्टौ येषाम् ते प्रियाष्टानः। प्रियाष्टौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

301 हलादौ वा स्यात्..

बालमनोरमा

तस्य विशेषमाह–अष्टन आ विभक्तौ। `रायो हली'त्यो हलीत्यपकृष्यते। तच्च विभक्तेर्विशेषणं, तदादिविधिः। तदाह–अष्टन आत्वमित्यादिना। ग्रहणकसूत्रेऽग्रहणेन वार्णसमाम्नायिकानामेव ग्रहणादाकारस्याऽनण्त्वाद्भाव्यमानत्वाच्च शुद्ध एव नकारस्य आकारः।

तत्त्वबोधिनी

332 अष्टन आ विभक्तौ। सौत्रत्वादिहाऽल्लोपो न कृतः। `कनिन्युषितक्षी'त्यतः `कनिः नित्यनुवर्तमाने 'सप्यशूभ्यां तुट् चे`त्यनेन सप्तन्नष्टन्शब्दौ निष्पन्नौ। `रायौ हली त्युत्तरसूत्राद्धलीत्यपकृष्यते, तच्च विभक्तेर्विशेषणमित्यभिप्रेत्य व्याचष्टे—हलादाविति। `हली'त्यस्यानपपकर्षणे त्वष्टानामिति न सिध्येत्। परत्वान्नित्यत्वाच्च नुटः प्रागात्वे कृते अनान्तत्वेन षट्संज्ञाऽभावान्तुटोऽप्रवृत्तेः।न च यथोद्देशपक्षेऽन्तकङ्गत्वात्प्रागेव कृता षट्संज्ञा एकदेशविकृतन्यायेन कृतात्वेऽपि सुलभेति वाच्यम्, अल्विधौ उक्तन्यायऽयौग्त्। किंच `प्रियाष्टानौ'`प्रियष्टानः'प्रियष्ट्नः' `प्रियष्ट्ने'त्याद्यपि न सिध्येत्, उक्तरीत्या तत्राप्यात्वप्रवृत्तेरिति बोध्यम्।

Satishji's सूत्र-सूचिः

214) अष्टन आ विभक्तौ 7-2-84

वृत्ति: अष्टन आत्वं वा स्याद् हलादौ विभक्तौ। When followed by a विभक्तिः affix that begins with a हल् letter, अष्टन् optionally gets आकारः as अन्तादेशः. This rule is also applied when जस् and शस् follow, on the basis of the ज्ञापकम् (indication) given in the rule 7-1-21
Note: The optionality of this rule is inferred from the rule 6-1-172 अष्टनो दीर्घात्‌।

उदाहरणम् – अष्टन् + जस् = अष्ट आ + जस् 7-2-84 = अष्टा + जस् 6-1-101 – example continued under next rule.