Table of Contents

<<1-4-102 —- 1-4-104>>

1-4-103 सुपः

प्रथमावृत्तिः

TBD.

काशिका

तिङां त्रिकेषु एकवचनादिसंज्ञा विहिताः। सम्प्रति सुपाम् त्रिकेषु विधीयन्ते। सुपश्च त्रीणि त्रीणि पदानि एकश एकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति। सु इति एकवचनम्। औ इति द्विवचनम्। जसिति बहुवचनम्। एवम् सर्वत्र।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

122 सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः..

बालमनोरमा

184 सुपः। सुप् प्रत्याहारः, षष्ठ\उfffदेकवचनम्। `तान्येकवचनद्विवचनबहुवचनान्येकशः' इति सूत्रं तानीतिवर्जमनुवर्तते। एकश इति। एकैकमित्यर्थः `सङ्ख्यैकवचनाच्च वीप्सायाम्' इति शश्। शसैव वीप्साया अबिधानात् `नित्यवीप्सयोः' इति द्वित्वं न। तच्च `सङ्ख्यैकवचनाच्चे'ति सूत्रव्याख्यावसरे प्रपञ्चयिष्यते। `तिङस्त्रीणि त्रीणी'त्यतः `त्रीणि त्रीणि'त्यनुवर्तते। तदाह– सुपस्त्रीणीत्यादिना।

तत्त्वबोधिनी

153 सुपः। अत्र `तिङस्त्रीणि त्रीणि'–इति सूत्रात् `त्रीणि त्रीणी'ति पदं, `तान्येकवचने'ति सूत्रं च `तानी'ति पदं विहायानुवर्तत इति व्याचष्टे–सुपस्त्रीणि त्रीणित्यादिना। एकश इति। एकैकमित्यर्थः। सङ्ख्यैकवचनाच्चे'ति वीप्सायां प्रथमान्ताच्छस्।

Satishji's सूत्र-सूचिः

45) सुप: 1-4-103

वृत्ति: सुपस्त्रीणि त्रीणि वचनान्येकश एकवचन-द्विवचन-बहुवचनसञ्ज्ञानि स्यु: । The सुप् affixes listed in 4-1-2 are in sets of three and in each set there is a singular, dual and plural affix.

गीतासु उदाहरणम् – श्लोकः bg1-1

धृतराष्ट्र + सुँ – In 4-1-2 the first set (प्रथमा-विभक्ति: – nominative case) of three affixes is सुँ (singular), औ (dual) and जस् (plural.) Since the intention of the speaker is to use the nominative case and since धृतराष्ट्र is a singular form, we use the affix सुँ.