TBD.
भू इत्येवम् आदयः शब्दाः क्रियावचना धातुसंज्ञा भवन्ति। भू भवति। एध एधते। स्पर्ध स्पर्धते। धातुशब्दः पूर्वाचार्यसंज्ञा। ते च क्रियावचनानां संज्ञां कृतवन्तः। तदिह अपि पूर्वाचर्यसंज्ञाश्रयणात् क्रियावाचिनाम् एव भूवादीनां धातुसंज्ञा विधीयते। भूवादीनां वकारो ऽयं मङ्गलार्थः प्रयुज्यते। भूवो वार्थं वदन्ति इति भ्वर्था वा वादयः स्मऋताः। धातुप्रदेशाः धातोः 3-1-91 इत्येवम् आदयः।
TBD.
36 क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः..
20 प्रभृतिवचनः, द्वितीयस्तु प्रकारवचनः। भूवौ आदी येषां ते भूवादयः। भूप्रभृतयो वासदृशाश्च ये, ते धातुसंज्ञका इत्यर्थः। वाधातुसादृश्यं च क्रियावाचकत्वेन। तदाह- -क्रियावाचिन #इत्यादिना। क्रियावाचिनः किम् ?। धातुपाठे या इत्यस्य पाठात् याः पश्यन्तीत्यत्र टाबन्तयच्छब्दस्य धातुत्वं मा भूत्। धातुत्वे हि `आतो धातोः' इत्याल्लोपः स्यात्। वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया टाबन्तयच्छब्दस्याऽत्र न ग्रहणप्रसक्तिः। `क्रियावाचिन' इति तु वाशब्दस्य विकल्पार्थस्य निपातस्य धातुत्वनिवृत्त्यर्थम्, धातुपाठे वा इत्यस्य पाठात्। `वां गतिगन्धनयोः' `या प्रापणे' इत्यर्थनिर्देशस्याधुनिकत्वात्। `क्रियावाचिन' इत्युक्तौ तु न दोषः। वार्थस्य विकल्पस्य, `वा भविष्यति' इति `वा अभव'दित्येवं भूतभविष्यत्कालसंबन्धाऽभावेन क्रियात्वाऽभावादिति शब्देन्दुशेखरे स्थितम्। भ्यादयः किम् ?। वर्जनक्रियावाचिनो हिरुगित्यस्य धातुत्वं मा भूत्।
19 भूवादय इति। भूश्च वाश्च भूवाविति द्वन्द्वः , आदिशब्दयोव्र्यवस्थाप्रकारवाचिनोरेकशेषः। आदिश्च आदिश्च आदी, भूवौ आदी येषामिति विग्रहः। भूप्रभृतयो वासदृशाः। सादृश्यं च क्रियावाचित्वेनेत्यभिप्रेत्याह- क्रियावाचिन इति। क्रियावाचिन इति किम् ?,`याः पश्यसी'त्यादौ धातुत्वं मा भूत्। सति हि तस्मिन् `अतो धातो'रित्याकारलोपः स्यादिति स्थितं मनोरमायाम्। भ्वादयः किम् ?' `हिरुक्' `पृथग्' इत्याद्यव्ययानां `शिश्ये' इति भावार्थतिङन्तस्य च मा भूत्। स्तन्भ्वादीनामुदित्करणेन सौत्राणां धातुत्वं ज्ञाप्यते। चुलुम्पादीनां `बहुलमेतन्निदर्शन'मिति गणसूत्रेण सङ्ग्रहः।
275) भूवादयो धातवः 1-3-1
वृत्तिः क्रियावाचिनो भ्वादयो धातुसञ्ज्ञा: स्युः । The terms “भू” etc. denoting action get the धातु-सञ्ज्ञा। (They are called “verbal roots.”)
These are enumerated in a list called the धातु-पाठ:।
The following terminations (which can be added to a धातु:) denoting the tenses and moods of the verbs are called the ten लकाराः – लँट्, लिँट्, लुँट्, लृँट्, लेँट्, लोँट्, लँङ्, लिँङ्, लुँङ्, लृँङ् ।
Out of these लेँट् is used only in the वेद:।
So, in भाषायाम् (classical Sanskrit) only लँट, लिँट्, लुँट्, लृँट्, लोँट्, लँङ्, लिँङ्, लुँङ्, लृँङ् are used. लिँङ् has two varieties विधिलिँङ् and आशीर्लिँङ्। Taking this two-fold distinction of लिँङ् into account, in भाषायाम् also there are ten लकारा:।