TBD.
ग्राम्याणां पशूनां सङ्घाः ग्राम्यपशुसङ्घाः। एतेषु सहविवक्षायां स्त्री शिष्यते। पुमान् स्त्रिया 1-2-67 इति पुंसः शेषे प्राप्ते स्त्रीशेषो विधीयते। अतरुणग्रहणम् सामर्थ्यात् पशुविशेषनम्। गाव इमाः। अजा इमाः। ग्राम्यग्रहनं किम्? रुरव इमे। पुषता इमे। पुशुषु इति किम्? ब्राह्मणाः। क्षत्रियाः। सङ्घेषु इति किम्? एतौ गवौ चरतः। अतरुणेसु इति किम्? वर्सा इमे। वर्करा इमे। अनेकशफेष्विति वक्तव्यम्। इह मा भूत्। अश्वा इमे। इति स्रीजयादित्यविरचितायं काशिकायां वृत्तौ प्रथमाध्यायस्य द्वितीयः पादः।
TBD.
–
ग्राम्यपशु। एष्विति। तरुणभिन्नेषु ग्राम्याणां पशूनां सङ्घेष्वित्यर्थः। इह अनपुंसकेनेत्यनुवर्तनादाहपुमान्?स्त्रियेत्यस्यापवाद इति। गौश्च गौश्च गौश्चे'ति पुंलिङ्गस्त्रीलिङ्गेषु गोशब्देषु सहविवक्षितेषु `पुमान् स्त्रिये'त्यतद्बाधित्वा स्त्री शिष्यत इति भावः। ननु स्त्रीशेषे पुंशेषे वा न कोऽपि रूपभेद इत्यत आह–इमा इति। अनुप्रयोगे रूपभेदः फलमिति भावः। `त्यदादितः शेषे' इति न भवति, `गाव इमाः' इतिभाष्यप्रयोगादित्याहुः। रुरव इमे इति। रुरुः–कृष्णाख्यो मृगः। अग्राम्यपशुत्वान्न स्त्री शिष्यते। किंतु `पुमान् स्त्रिये'त्येकशेषः। ततश्चानुप्रयोगे `इमे' इति पुंलिङ्गत्वमेव। ब्राआहृणा इमे इति। ब्राआहृणी च ब्राआहृणाश्चेति विग्रहः। अपशुत्वान्न स्त्रीशिष्यते, किन्तु `पुमान् स्त्रिये'त्येकशेषः। अन्यथा `ब्राआहृण्य इमा' इति स्यात्। एतौ गावाविति। स्त्रीलिङ्ग पुंलिङ्गयोः सबोक्तावसङ्घत्वान्न स्त्री शिष्यते। सङ्घशब्दो हि बहूनां समुदाये वर्तते, अन्यथा एकशेषस्यानेकविषयत्वादेवाऽनेकपरिग्रहे सिद्धे किं तेनेति भावः। स्त्रीशेषे तु `एते' इत्यनुप्रयोगे रूपं स्यात्। वत्सा इमे इति। वत्साश्च वत्साश्चेति विग्रहः। तरुणत्वान्न स्त्री शिष्यते। अन्यथा `वत्सा इमा' इत्यनुप्रयोगः स्यात्। \र्\ननेकशफेष्विति वाच्यमिति। वार्तिकमिदम्। एकशफा अ\उfffदाआदयः, तेषां सहोक्तौ `ग्राम्यप\उfffदिआ'ति न भवति। अ\उfffदाआ इमे इति। एकशफत्वान्न स्त्री शिष्यते। ततश्चानुप्रयोगे पुंलिङ्गत्वमिति भावः। ननु `सरूपाणा'मिति सूत्रे `तिष्यपुंनर्वस्वोर्नक्षत्रद्वन्द्वे' इत्यतो द्वन्द्वग्रहणानुवृत्त्या द्वन्द्वे एकशेष इति भाष्यात्कृते द्वन्द्वे एकशेषः। स्यादित्यत आह–इहेति। इहोदाह्मतेषु एकशेषविषयोषु सर्वत्र प्रसक्तं द्वन्द्वमनवकाशत्वादेकशेषो बाधते। कृते त्वेकशेषेऽनेकाभावाद्द्वन्द्वो नेत्यर्थः। `द्वन्द्वसमासे एकशेष' इति भाष्यं तु द्वन्द्वे प्रसक्ते सहविवक्षायामेकशेष इति व्याख्येयम्। ननु कृत एव द्वन्द्वे एकशेषो भवतु, का हानिरित्यत आह–तेनेति। द्वन्द्वात् प्रागेवैकशेषाश्रयणेनेत्यर्थः। कृते द्वन्द्वे एकशेषाभ्युपगमे `शिरसी' इति द्विवचने शिरांसीति, बहुवचने च समासस्येत्यन्तोदात्तः स्यात्, प्राण्यङ्गत्वात् `द्वन्द्वश्च प्राणी'त्यादिना एकवद्भावश्च स्यादित्यर्थः। आदिना शिरोभ्यां शिरोभिरित्यादिसङ्ग्रहः। पन्थानाविति। द्वन्द्वे कृते एकशेषाभ्युपगमे पन्थानौ पन्थानः, पथिभ्यां पथिभि'रित्यादौ `ऋक्पू'रित्यप्रत्ययः समासान्तः स्यादिति भावः। नचात्र `इतोऽत्सर्वनामे'ति सर्वनामस्थाने परेऽकारविधानाल्लिङ्गात्समासान्तः सुपरिहरः। `इतोऽदि'त्युक्तेऽपि सावित्यनुवत्र्य `पन्था' इति सिद्धेरिति वाच्यं, `पथो विभाषे'ति समासान्ताऽभावेऽपन्थानावित्यादौ `इतोऽदि'ति सूत्रस्य सावकाशत्वात्। एकशेषप्रकरणम्।*
283 ग्राम्य। ग्रामे भवा गान्याः। `ग्रामाद्यखञौ'इति यः। लिङ्गद्वयेऽपि `गावः'इति रूपस्य समानत्वात्स्त्रीलिङ्गशेषस्य फलमाह—इमा इति। एवं च `इमे च इमाश्च इमाः'इति स्त्रीलिङ्गशेष एव भवति, न त्वत्र `त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानी'ति पुंलिङ्गशेषः, `गाव इमाः'इति भाष्योदाहरणादित्येके। अन्ये तु ग्राम्यपशुसङ्घविषयत्वाऽविशेषात् `गावः'इतिवत् `इमाः'इति च स्त्रीलिङ्गशेष एव स्यादिति नास्ति शङ्कावकाश इत्याहुः। एतौ गावाविति। एकशेथस्याऽनेकविषयत्वादेवाऽनेकपरिग्रहे सिद्धे सङ्गग्रहणसामथ्र्याद्बहूनां समुदायोऽत्र गृह्रत इति भावः।\र्\ननेकशफेष्विति वाच्यम्। एकशेषे कृते इति। विभक्त्युत्पत्त्यनपेक्षत्वेनान्तरङ्गत्वादिति भावः। नन्वेवं विषयभेदात् `द्वन्द्वापवाद एकशेषः'इत्युद्धोषः कथं प्रवर्तत इति चेत्?। अत्राहु–यद्येकशेषो न स्यात्तर्हि विभक्तावुत्पद्यमानायां द्वन्द्वः स्यात्, कृते त्वेकशेष स न भवतीति कार्किर्की प्राप्तिमादायापवादोद्धोष इति। द्वन्द्वो नेति। एतेन `कृतद्वन्द्वानामेकशेषः'इति भ्रमो निरस्तः। न च तथैवास्तु, फले विशेषाऽभावादिति वाच्यमित्याह—तेनेति। पन्थानाविति। न चात्र`इतोऽत्सर्वनामस्थाने'इति लिङ्गात्समासान्तः सुपरिहरः, `इतोऽ'दित्युक्तेऽपि `सौ' इत्यनुवृत्त्या `पन्थाः'इति सिद्धेरिति वाच्यं, `पथो विभाषा'इति समासान्ताऽभावे `अपन्थानौ'इत्यादौ `इतोऽ'दिति सूत्रस्य सावकाशत्वात्। इत्येकशेषः।
TBD.