Table of Contents

<<1-2-41 —- 1-2-43>>

1-2-42 तत्पुरुषः समानाधिकरणः कर्मधारयः

प्रथमावृत्तिः

TBD.

काशिका

तत्पुरुषः इति समासविशेषस्य संज्ञां वक्ष्यति। स तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवति। अधिकरणशब्दो ऽभिधेयवाचि। समानाधिकरणः समानाभिधेयः। परमराज्यम्। उत्तमराज्यम्। अकर्मधारये राज्यम् 6-2-130 इत्युत्तरपदाऽद्युदात्तं न भवति। पाचकवृन्दारिका। तत्पुरुषः इति किम्? पाचिकाभार्यः। समानाधिकरणः इति किम्? ब्राह्मणराज्यम्। कर्मधारयप्रदेशाः कर्मधारये ऽनिष्ठा 6-2-46 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

943

बालमनोरमा

735 अथ कर्मधारयकार्यं वक्ष्यन्करमधारयसंज्ञामाह–तत्पुरुषः समाना। समानम्- एकमधिकरणं=वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्त इति समानाधिकरणः, मत्वर्थीयोऽर्शाअद्यच्। समानाधिकरणानेकपदावयवकस्तत्पुरुषः कर्मधारयसंज्ञको भवतीत्यर्थः। तत्पुरुषाधिकारे इयं संज्ञा न कृता, तथा सत्येकसंज्ञाधिकारात्कर्मधारधारयसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्याहुः।

तत्त्वबोधिनी

650 तत्पुरुषः। समानाधिकरणशब्दोऽर्साअद्यजन्तः। समानाधिकरणपा\उfffद्क इत्यर्थः।\त्

Satishji's सूत्र-सूचिः

TBD.