TBD.
एक विभाक्तिर् यस्य तदिदम् एकविभाक्ति। समासे विधीयमाने यन् नियतविभक्तिकं, द्वितीये सम्बन्धिनि बहुभिर्विभक्तिभिर् युज्यमाने ऽप्येकयैव विभक्त्या युज्यते तदुपसर्जनसंज्ञं भवति अपूर्वनिपाते, पूर्वनिपतं पूर्वनिपाताऽख्यम् उपसर्जनकार्यं वर्जयित्वा। निरादयः क्रान्ताऽद्यर्थे पञ्चम्या। पूर्वपदे नानाविभक्तिके ऽप्युत्तरपदं पञ्च्म्यन्तम् एव भवति। निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः। निष्त्रान्तं कौशाम्ब्या निष्कौशाम्बिम्। निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना। निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये। निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ। एवं निर्वाराणसिः। एकविभक्ति इति किम्? राजकुमारी। अपूर्वनिपाते इति किम्? न हि भवति कौशाम्बीनिः इति।
TBD.
954 विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः..
647 अत्र दिशाशब्दस्यापि उपसर्जनत्वमाह-एकविभक्ति। `प्रथमानिर्दिष्टं समास उपसर्जन'मित्यतः `समास' इति, `उपसर्जन'मिति चानुवर्तते। `समास' इत्यनेन विग्रहवाक्यं लक्ष्यते। एकैव विभक्तिर्यस्य तदेकंविभक्ति। नियतविभक्तिकमिति यावत्। एवंच विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्नकार्ये कर्तव्ये उपसर्जनं स्यादित्यर्थः। फलितमाह-विग्रहे यन्नियतेति। `निष्कौशाम्बि'शब्द उदाहरणम्। तत्र कौशाम्ब्या निष्क्रान्तः। निष्क्रातं निष्क्रान्तेन निष्क्रान्ताय निष्क्रान्तात् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषु `निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासे निष्कौशाम्बिः निष्कौशा\उfffद्म्ब निष्कौशाम्बिना इत्यादीति स्थितिः। अत्र `कौशाम्बी'शब्द एव विग्रहे नियतविभक्तिक इति तस्योपसर्जनत्वमनेन भवति। समासशास्त्रे कौशाम्बीशब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति प्रथमानिर्दिष्टमित्यनेनोपसर्जनत्वाऽप्राप्तौ वचनम्। तत्र कौशाम्बीशब्दस्याऽनेन उपसर्जनत्वेऽपिन `पूर्वनिपातः तत्तद्विभक्त्यन्तैरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम्। `तुल्यार्थै'रिति सूत्रे भाष्ये स्पष्टमिदम्। प्रथमान्तपदेनैव समास इत#इ `अनेक'मिति सूत्रे भाष्ये स्थितम्।
–
TBD.