TBD.
सुप् सुपा इति च वर्तते। विभक्त्यादिश्वर्थेषु यदव्ययं वर्तते तत् समर्थेन सुबन्तेन सह समस्यते, अव्ययीभावश्च समासो भवति। वचनग्रहणं प्रत्येकं सम्बध्यते। विभक्तिवचने तावत् स्त्रीष्वधिकृत्य कथा प्रवर्तते अधिस्त्रि। अधिकुमारि। सप्तम्यर्थे यदव्ययं तद् बिभक्तिवचनम्। समीपवचने कुम्भस्य समीपम् उपकुम्भम्। उपमणिकम्। समृद्धिरृद्धेराधिक्यम् समृद्धिर् मद्राणां सुमद्रम्। सुमगधं वर्तते। व्यृद्धिरृद्धेरभावः गवदिकानाम् ऋद्धेरभावः दुर्गवदिकम्। दुर्यबनं वर्तते। अर्थाभावः वस्तुनो ऽभावः अभावो मक्षिकाणां निर्मक्षिकम्। निर्मशकम् वर्तते। अत्ययः अभूतत्वम्, अतिक्रमः अतीतानि हिमानि अतिहिमम्। निर्हिमम्। निःशीतं वर्तते। असम्प्रति उपभोगस्य वर्तमानकालप्रतिषेधः अतितसृकम्। तैसृकमाच्छादनम्, तस्य अयम् उपभोगकालो न भवति इत्यर्थः। शब्दप्रादुर्भावः प्रकाशता शब्दस्य इति पाणिनि। तत्पाणिनि। पाणिनिशब्दो लोके प्रकाशते इत्यर्थः। पश्चात् अनुरथं पादातम्। रथानां पश्चातित्यर्थः। यथा। यथाऽर्थे यदव्ययं वर्तते तत् समस्यते। योग्यता विप्सा पदार्थानतिवृत्तिः सादृश्यं च इति यथार्थाः। योग्यतायाम् अनुरूपम्। रूपयोग्यम् भवति इत्यर्थः। वीप्सायाम् अर्थमर्थं प्रति प्रत्यर्थम्। पदार्थनतिवृत्तौ यथाशक्ति। आनुपूर्व्यमनुक्रमः अनुज्येष्ठं प्रविशन्तु भवन्तिअः। ज्येष्ठानुपूर्व्या भवन्तः प्रविशन्तु इत्यर्थः। यौगपद्यम् एककालता सचक्रम् धेहि। युगपच्चक्रं धेहि इत्यर्थः। सादृश्यम् तुल्यता। किमर्थम् इदम् उच्यते, यथार्थ इत्येव सिद्धम्? गुणभूते ऽपि सादृश्ये यथा स्यात्, सदृशः किख्या राकिखि। सम्पत्तिः अनुरूप आत्मभावः समृद्धेरन्यः सब्रह्म बाभ्रवाणाम्। सक्षत्रं शालङ्कायनानाम्। साक्ल्यम् अशेषता सतृणम् अभ्यावहरति। सबुसम्। न किंचिदभ्यावहार्यं परित्यजति इत्ययमर्थो ऽधिकार्थवचनेन प्रतिपाद्यते। अन्तवचने अन्तः इति परिग्रहापेक्षया समाप्तिरुच्यते। साग्नि अधीते। सेष्टि सपशुबन्धम्। सपशुबन्धान्तमधीते इत्यर्थः। इयं समाप्तिरसकले ऽप्यध्ययने भवति इति साकल्यात् पृथगुच्यते।
TBD.
949 नञ् सुपा सह समस्यते..
644 अव्ययं विभक्ति। विभक्त्यर्थाद्यभावेऽप्यपदिशमित्यादि साधयितुमाह–अव्ययमिति योगो विभज्यत इति। अत्र `समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीयान्ततया विपरिणम्यते। समास इति, अव्ययीभाव इति चाधिकृतम्। तदाह–अव्ययं समर्थेनेति। सोऽव्ययीभाव इति। स समासः अव्ययीभावसंज्ञः स्यादित्यर्थः। तथाच दिशयोर्मध्यमित्यस्वपदविग्रहे मध्यार्थकस्य अपेत्यव्ययस्य दिशयोरित्यनेन समाससंज्ञा, तस्य समासस्याऽव्ययीभावसंज्ञा च सिद्धा। तथाच समासत्वात्प्रातिपदिकत्वे `सुपो धातु'इति सुब्लुकि सति दिशा-अप इति स्थितम्।
571 अव्ययं विभक्ति। विभक्तिरिह कारकशक्तिः। विभज्यते अनया प्रातिपदिकार्थ इथि व्युत्पत्तेः। अतएव वक्ष्यति `विभक्त्यर्थादिषु विद्यमानमव्यय'मिति।
TBD.