Table of Contents

<<1-1-60 —- 1-1-62>>

1-1-61 प्रत्ययस्य लुक्श्लुलुपः

प्रथमावृत्तिः

प्रत्ययस्य (6/1), लुक्श्लुलुपः (1/3)|
हिन्दी – [प्रत्ययस्य] प्रत्यय के अदर्शन की [लुक्श्लुलुपः] लुक् श्लु तथा लुप् संज्ञाएं होती है।

काशिका

अदर्शनम् इति वर्तते। प्रत्ययादर्शनस्य लुक्, श्लु, लुपित्येताः संज्ञा भवन्ति। अनेकसंज्ञाविधनाच्च तद्भावितग्रहणम् इह विज्ञायते। लुक्संज्ञाभावितं प्रत्ययादर्शनं लुक्संज्ञम् भवति, श्लुसंज्ञाभावितं श्लुसंज्ञं भवति, लुप्संज्ञा भावितं लुप्संज्ञं भवति। तेन संज्ञानां सङ्करो न भवति। विधिप्रदेशेषु च भाविनी संज्ञा विज्ञायते। अत्ति। जुहोति। वरणाः। प्रत्ययग्रहणम् किम्? अगस्तयः। कुण्डिनाः। लुक्श्लुलुप्प्रदेशाः लुक्तद्धितलुकि 1-2-49, जुहोत्यादिभ्यः श्लुः 2-4-75, जनपदे लुप् 4-2-71 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

The disappearance of an affix when it is caused by the word luk, shlu or lup are designated by those terms respectively. #

लघु

189 लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्..

बालमनोरमा

258 अतो नैवमर्थः, किं तु लुक्श्लुलुप इत्यावर्तते। ततश्च लुक् श्लु लुप इत्युच्चार्य विहितं प्रत्ययाऽदर्शनं यथासङ्ख्यपरिभाषया क्रमाल्लुगादिसंज्ञं स्यादिति लभ्यते, अतो नोक्तसङ्कर इत्यभिप्रेत्याह-लुक्श्लुलुप्शब्दैरित्यादिना। `फले लुक्', `जुहोत्यादिभ्यः श्लुः' `जनपदे लुप्' इत्यादिविधिप्रदेशेषु `अस्य सूत्रस्य शाटकं वये'तिवद्भाविज्ञानान्नान्योन्याश्रयः। तदेवं कतिशब्दस्य षट्संज्ञायाम्–।

तत्त्वबोधिनी

219 पत्ययस्य लुक्श्लुलुपः। `अदर्शनं लोपः'इत्यतोऽनुवृत्तस्याऽदर्शनस्यानेकसंज्ञाकरणसामथ्र्यात्तन्त्त्राद्यश्रित्य तद्भावितसंज्ञा इह विज्ञायन्ते, तेन संज्ञासङ्करोऽत्र न भवति, तदेतदाह– लुक्श्लुलुप्शब्दैरित्यादि। सति तु संज्ञासङ्करे `हन्ती'त्यत्र शब्लुकि `श्लौ'इति द्वित्वं स्याति। `जुहेती'त्यत्र श्लौ सति `उतोवृद्धिर्लुकि हली'ति वृद्धिः स्यात्। न च तत्र `अभ्यस्तस्य ने'त्यनुवृत्तेर्योयोति नोनोतीत्यादाविव वृद्धिर्न भविष्यतीति वाच्यं, संज्ञासङ्करपक्षे तदनुवृत्त्यसंभवात्, अन्यथा सूत्रस्य निर्विषयत्वापत्तेः। न च `यौती'त्यादिरवकाशः, संज्ञसङ्करे तत्रापि द्वित्वस्य दुर्वारत्वादिति भावः। `फले लुक्' `जुहोत्यादिभ्याः श्लुः'`जनपदे लु'बित्यादिविधिप्रदेशेषु सूत्रशाटक वद्भाविसंज्ञाविज्ञानान्नान्योन्याश्रयः।

Satishji's सूत्र-सूचिः

103) प्रत्ययस्य लुक्श्लुलुपः 1-1-61

वृत्ति: लुक्-श्लु-लुप्‍शब्दैः कृतं प्रत्ययादर्शनं क्रमात् तत्तत्सञ्ज्ञं स्यात् । The elisions of affixes that are done using the words लुक्, श्लु and लुप् get these words as their names, respectively.

Continuing from above example: कति + जस् = कति 7-1-22 since लुक् is a type of लोप:(elision.)