Table of Contents

<<7-1-21 —- 7-1-23>>

7-1-22 षड्भ्यो लुक्

प्रथमावृत्तिः

TBD.

काशिका

षट्संज्ञकेभ्य उत्तरयोः जश्शसोर् लुक् भवति। षट् तिष्ठन्ति। षट् पश्य। पञ्च। सप्त। नव। दश। षट्प्रधानात् तदन्तादपि भवति। उत्तमषत्। यत्र तु उपसर्जनं षट् ततो न भवति, प्रियषषः, प्रियपञ्चानः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

188 जश्शसोः..

बालमनोरमा

259 षड्भ्यो लुक्। जस्शसोरित्यनुवर्तते। तदाह–षड्भ्यः परयोरित्यादिना।

तत्त्वबोधिनी

220 पङ्भ्यो लुक्। `सर्वनाम्नः स्मै' इतिवत् `षषोलु'गिति वक्तव्ये बहुवचननिर्दिशोऽत्रार्थप्राधान्यसूचनार्थः, कृत्रिमाकृत्रिमन्यायेन स्वरूपनिराससिद्धेः। तेन `षडर्थगतसङ्ख्याभिधायिनोरेव जश्शसोर्लु'गित्यर्थपर्यवसानात्प्रियपञ्चन इत्यादौ नातिप्रसङ्गः। `जश्शसोः शि 'रित्यातोऽनुवर्तनादाह-जश्शसोर्लुक्स्यादिति।

Satishji's सूत्र-सूचिः

102) षड्भ्यो लुक् 7-1-22

वृत्ति: जश्शसोः । The affixes “जस्” and “शस्” take the लुक् elision when they follow the words that are designated “षट्”।

उदाहरणम् – कति + जस् – जस् takes लुक्