TBD.
स्त्रीग्रहणम् अनुवर्तते उपसर्जनस्य इति च। पूर्वेण ह्रस्वत्वे प्राप्ते लुग् विधीयते। तद्धितलुकि सति स्त्रीप्रत्ययस्य उपस्र्जनस्य लुग् भवति। पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः। दशेन्द्रः। पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः। आमलक्याः फलमामलकम्। बदरम्। कुवलम्। तद्धितग्रहणं किम्? गार्ग्याः कुलं गार्गीकुलम्। लुकि इति किम्? गार्गीत्वम्। उपसर्जनस्य इत्येव। अवन्ती। कुन्ती। कुरूः।
TBD.
–
1387 लुक्तद्धितलुकि। प्रथमस्य द्वितीये इदं सूत्रम्। उपसर्जनस्त्रीप्रत्ययस्येति। `गोस्त्रियोरुपसर्जनस्ये'त्यतस्तदनुवृत्तेरिति भावः। श्रविष्ठ इति। ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः। `लुक्तद्धितलुकी'त्यत्र अप्रधानमेवोपसर्जनम्, नतु शास्त्रीयम्, असंभवादिति भावः। फल्गुन इति। फल्गुन्योर्जात इत्यर्थः। ?णो लुकि स्त्रीप्रत्ययनिवृत्तिः। इत्यादीति। अनुराधासु जातोऽनुराधः। नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः। एवमग्रे लुकि स्त्रीप्रत्ययनिवृत्तिः। इत्यादीति। अनुराधासु जातोऽनुराधः। नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः। एवमग्रेऽपि। `अनुराधान् हविषा वर्धयन्तः' इत्यादौ छान्दसं पुंस्त्वम्। स्वात्यां जातः-स्वातिः। तिष्ये जातस्तिष्यः। पुनर्वस्वोर्जातः–पुनर्वसुः। पस्ते जातो-हस्तः। विशाखयोर्जातो-विशाखः। अषाढासु जातोऽषाढः। बहुलासु जातो बहुलः। चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः। रेवती रोहिणीति। जातायां नक्षत्राऽणो लुकि सति प्रकृतेर्गौरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्ङीष्। ननु `रेवती नक्षत्रे' `रोहिणी नक्षत्रे' इति गौरादौ पाठादिह जातार्थवृत्तिभ्यां कतं ङीषित्यत आह–आभ्यामिति। रेवतीरोहिणीशब्दाभ्यामित्यर्थः। `परस्य स्त्रीत्वविशिष्टजातार्थप्रत्ययस्ये'ति शेषः। आकृतिगणत्वादिति। स्त्रीत्वविशिष्टजातार्थवृत्त्योरनयोः पिप्पल्यादौ निवेसे बाष्योदाहरणमेव प्रमाणम्। स्त्रियामित्येवेति। तथा भाष्यादिति भावः। फल्गुनी, आषाढा इत्याभ्यां क्रमाट्टः अन् च स्त्रीत्वविशिष्टजातार्थे वक्तव्यावित्यर्थः।
चे'ति ईकारलोपः। जातार्थस्त्रीत्वे टित्त्वान्ङीप्। अषाढेति। अषाढासु जातेत्यर्थः। नत्रत्राऽणोऽपवादोऽन्। `यस्येति च ' इत्याकारलोपः। जातार्थे स्त्रीत्वे टाप्। `श्रविष्ठाफल्गुनी' त्यादिना टाऽनोर्लुक् तु न, विधानसामथ्र्यात्। छण्वक्तव्य इति। नक्षत्राऽणोऽपवादः। विधिसामथ्र्यादस्यापि न लुक्। अस्त्रियामपीति। अत्र स्त्रियामिति न संबध्यते, भाष्ये तथोदाहरणादिति भावः। श्रविष्ठासु जात इत्यर्थः। छण्। ईयः `यस्येति चे'त्याकारलोपः। णित्त्वादादिवृद्धिः। आषाढीय इति। अषाढासु जात इत्यर्थः।
1090 लुक्त। उपसर्जनेति। अप्रधानमिहोपसर्जनं गृह्रते , न शास्त्रीयम्, असंभवात्। ननु `गोस्त्रियो'रिति सूत्रेऽप्यप्रधानलक्षणमेवोपसर्जनं गृह्रताम् `एकविभक्ति चे'ति शास्त्रीयं न गृह्रताम्। मैवम्। हरीतक्याः फलानि हरीतक्य इत्यत्र ह्यस्वप्रसङ्गात्। उपसर्जनस्य किम्?। अवन्ती, कुन्ती, कुरूः। श्रविष्ठा=धनिष्ठाः। इत्यादीति। आदिशब्दादनूराधः। स्वातिः। तिष्यः। पुनर्वसुः। हस्तः। विशाखः। अषाढः। बहुलः। कृत्तिकावाची बहुलाशब्दष्टाबन्तः, तस्य समाहारद्वन्द्वेन ह्यस्वनिर्देशः सूत्रे। उपशङ्ख्यानमिति। `लुक'इति शेषः। चित्रेति। `लुक्तद्धिते'ति लुकि पुनष्टाप्। टाऽनाविति। विधानसामथ्र्यादनयोर्न लुक्।
TBD.