Table of Contents

<<8-4-62 —- 8-4-64>>

8-4-63 शश्छो ऽटि

प्रथमावृत्तिः

TBD.

काशिका

झयः इति वर्तते, अन्यतरस्याम् इति च। झय उत्तरस्य शकारस्य अटि परतः छकरादेशो भवति अन्यतरस्याम्। वाक् छेते, वाक् शेते। अग्निचिच् छेते, अग्निचित् शेते। सोमसुच् छेते, सोमसुत् शेते। श्वलिट् छेते, श्वलिट् शेते। त्रिष्टुप् छेते, त्रिष्टुप् शेते। छत्वममि इति वक्तव्यन्। किं प्रयोजनम्? तच्छ्लोकेन, तच्छ्मश्रुणा इत्येवम् अर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

76 झयः परस्य शस्य छो वाटि. तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः. तच्छिवः, तच्शिवः. (छत्वममीति वाच्यम्) तच्छ्लोकेन..

बालमनोरमा

121 शश्छोऽटि। `झय' इति पञ्चम्यन्तमनुवर्तते। `श' इति षष्ठ\उfffदेकवचनम्। तदाह– झयः परस्येति। `तद्-शिव' इति स्थिते दकारस्य चुत्वेन जकारे कृते जकारस्य चकार इत्यन्वयः।

तत्त्वबोधिनी

96 शाश्छोऽटि। इह पदान्तादित्यनुवत्र्य `पदान्ताज्झय' इति व्याख्येयम्, तेनेह न, `मध्वश्चोतन्त्यभितो विरप्शम्'। विपूर्वाद्रपेरौणादिकः शः। `शश्छोऽटी'ति सूत्रं `शश्छोऽमी'ति पठनीयमित्यर्थः। तच्छ्लोकेनेति। `तच्छ्मश्रुणे'त्याद्यप्युदाहर्तव्यम्॥

Satishji's सूत्र-सूचिः

32) शश्छोऽटि 8-4-63

वृत्ति: झय उत्तरस्य शकारस्याटि परतश्छकारादेशो भवत्यन्यतरस्याम् । When a झय् letter precedes, a शकार: is optionally substituted by a छकार:, if an अट् letter follows.

गीतासु उदाहरणम् – श्लोकः bg2-8

यद् + शोकम् = यद् + शोकम् 8-2-39 = यज् + शोकम् 8-4-40 = यच् + शोकम् 8-4-55 = यच्छोकम्