TBD.
स्तौतेः ण्यन्तानां च षभूते सनि परतः अभ्यासातिणः उत्तरस्य आदेशसकारस्य मूर्धन्यादेशो भवति। तुष्टूषति। ण्यन्तानाम् सिषेवयिषति। सिषञ्जयिषति। सुष्वापयिषति। सिद्धे सत्यारम्भो नियमार्थः, स्तौतिण्योः एव षणि अभ्यासाद् यथा स्यात्, अन्यस्य मा भूत्। सिसिक्षति। सुसूषति। एवकारकरणमिष्ततो ऽवधारणार्थम्। स्तौतिण्योः षणि एव इति हि विज्ञायमाने तुष्टाव इत्यत्र न स्यात्, इह च स्यादेव सिसिक्षति इति। षणि इति किम्? अन्यत्र नियमो मा भूत्, सिषेच। को विनते ऽनुरोधः? अविनते नियमो मा भूत्, सुषुप्सति। तिष्ठासति। कः सानुबन्धे ऽनुरोधः? षशब्दमात्रे नियमो मा भूत्, सुषुपिष इन्द्रम्। अभ्यासातिति किम्? अभ्यासात् या प्राप्तिः तस्या नियमो यथा स्यात्, धातोः या प्राप्तिस् तस्या नियमो मा भूत्, प्रतीषिषति। अधीषिषति।
TBD.
–
–
395 स्तौतिण्योरेव। एवंच रिषाधयिषेति प्रयोगस्य साधुत्वं न तु सिसाधयिषेत्यस्येति ज्ञेयम्। उपसर्गात्त्विति। मध्येऽपवादन्यायात् `स्तौतिम्यो'रिति नियमेन `आदेशप्रत्यययो'रिति षत्वमेव बाध्यते न तु `स्थादिष्वभ्यासेन चे'त्युत्तरेण विहितमिति भाव-। सुषुप्सतीति। `रुदविदे'ति सनः कित्त्वान्न गुणः। प्रतीषिषतीति। इह षभूते सनीण् गताविति धातोः परसय् सत्य षत्वं भवत्येवेत्यर्थः।
TBD.