Table of Contents

<<8-3-21 —- 8-3-23>>

8-3-22 हलि सर्वेषां

प्रथमावृत्तिः

TBD.

काशिका

हलि परतः भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति सर्वेषाम् आचार्याणां मतेन। भो हसति। भगो हसति। अघो हसति। भो याति। भगो याति। अघो याति। वृक्षा हसन्ति। सर्वेषां ग्रहणं शाकटायनस्य अपि लोपो यथा स्यात्, लघुप्रयत्नतरो मा भूतिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

109 भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि. भो देवाः. भगो नमस्ते. अघो याहि..

बालमनोरमा

170 हलि सर्वेषाम्। `भोभगोअघोअपूर्वस्ये'त्यनुवर्तते। `व्योर्लघुप्रयत्ने'त्यतो यकारग्रहणमनुवर्तते। तदाह–भोभगो इति। लघ्वलघूच्चारणस्येति। ओकारात् परस्य यस्य लघु प्रयत्नतरस्यैवानेन लोपः। अलघुप्रयत्नतरस्य त्वोकारात् परस्य यस्य ओतो गाग्र्यस्येत्येव सिद्धम्। अपूर्वकस्य तु यस्य लघ्वलघूच्चारणस्येति विवेकः। यकारस्येति। वकारस्त्वत्र नानुवर्तते। भोभगोअघोअपूर्वस्य वकारस्याऽभावादिति वृत्तिः। `अव्यपर' इति निर्देशादिति तदाशयः। वृक्षं वातीति वृक्षवाः; तचामष्टे वृक्षव्, ण्यन्तात् क्विप्, इष्ठवद्भावाट्टिलोपः। णेरनिढीति णिलोपः, वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः, अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात्। वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात्। वृक्षव् हसतीति तु अस्मादेव भाष्यादसाधुरित्याहुः। सर्वेषां मतेनेति। सर्वाचार्यसंमतत्वादयं लोपो नित्य इति फलितम्। अत्र यदि `विभाषा भवद्भगवदघवतामोच्चावस्ये'ति वार्तिकेन `मातुवसो रु सम्बुद्धौ' इत्यत्र पठितेन `एषामन्तस्य संबुद्ध#औ रुत्वं वा स्यात्, अवेत्यंशस्य ओकारश्चे'त्यर्थकेन निष्पन्ना भोरादिशब्दा एव गृह्रेरन् तर्हि पुँल्लिङ्गैकवचनमात्रे भो हरेइत्यादिसिद्धावपि तदन्यत्र द्विवचनादौ स्त्रीनपुंसकयोश्च भो हरिहरौ, भो देवाः, भो लक्ष्मिः, बो विद्वद्वृन्देत्यादौ लोपो न सिध्येत्। अतो भोस् इत्यादिनिपातानामप्यत्र ग्रहणमित्यभिप्रेत्योदाहरति–भो देवा इत्यादि। देवा म्या इति। नचात्र यकारस्य लोपो व्योरित्येव लोपः सिद्ध इति वाच्यम्, लोपो व्योरिति लोपं प्रति यत्वस्याऽसिद्धवात्।

तत्त्वबोधिनी

127 द्विस्त्रिश्चतुरिति। इह द्वित्रिभ्यां सुजन्ताभ्यां साहचर्याच्चतुःशब्दोऽपि सुजन्त एव ग्रहीष्यते। कृत्वोर्थग्रहणं तु `साहचर्यं न सर्वत्र व्यवस्थपक'मित्यत्र ज्ञापकम्। तेन `दीधीवेवीटा'मित्यत्र धातुसाहचर्येऽप्यागमस्येटो ग्रहणम्। चतुष्कपाल इति। चतुर्षु कपालेषु संस्कृत इत्यर्थे `संस्कृतं भक्षाः'इत्यणो `द्विगोर्लुगनपत्ये' इति लुक्। अत्र मनोरमायाम्-`इदुदुपधस्येति नित्यं ष'इत्युक्तम्। एवं च `द्वितं त्रितमिति चतुःपञ्चाश'दिति स्वमूलग्रन्थे प्रयोगश्चिन्त्यः स्यात्, चतुष्कपालवत्तत्रापि नित्यतया षत्वप्रवृत्तेः। अतोऽत्र षत्वनिवारणाय `अप्रत्ययस्ये'त्यत्र `प्रत्ययस्य यो विसर्जनीयो न भवती'त्यर्थ एव स्वीकर्तव्यः। `चतुष्कपाल' इत्यत्र (तु) कस्कादेराकृतिगणत्वात्षत्वप्रवृत्तिरित्याहुः।

Satishji's सूत्र-सूचिः

18) हलि सर्वेषाम् 8-3-22

वृत्ति: हलि परतो भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति सर्वेषामाचार्याणां मतेन। (Just as we did in rule number 10 above, for the time being we will ignore the terms भोः, भगोः and अघोः) When a letter of the हल्-प्रत्याहारः (consonant) follows then, in the opinion of all teachers, the यकारः at the end of a पदम् drops, when it is preceded by the अवर्णः (अकारः or आकारः)।

गीतासु उदाहरणम् – श्लोकः bg9-21

कामकामास् + लभन्ते = कामकामारु + लभन्ते = कामकामाय् + लभन्ते = कामकामा + लभन्ते