Table of Contents

<<8-3-17 —- 8-3-19>>

8-3-18 व्योर् लघुप्रयत्नतरः शाकटायनस्य

प्रथमावृत्तिः

TBD.

काशिका

वकारयकारयोः भोभगोअघोअवर्णपूर्वयोः पदान्तयो लघुप्रयत्नतर आदेशो भवति अशि परतः शाकटायनस्य आचर्यस्य मतेन। भोयत्र, भो अत्र। भगोयत्र, भगो अत्र। अघोयत्र, अभो अत्र। कयास्ते, क आस्ते। अस्मायुद्धर, अस्मा उद्धर। असवादित्यः, असा आदित्यः। द्वावत्र, द्वा अत्र। द्ववानय, द्वा आनय। लघुप्रयत्नतरत्वम् उच्चारणे स्थानकरणशैथिल्यम्। स्थानं ताल्वादि। करणं जिह्वामूलादि। तयोरुच्चारणे शैथिल्यं मन्दप्रयत्नता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

137 व्योर्लघु। वकारयकारयोरिति। भोभगोअघोअपूर्वयोरित्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

प्रयत्नतरः=लघूच्चारणतरः। स चान्तरतम्याद्वस्य वः;यस्य य इत्याह-वयाविति।

Satishji's सूत्र-सूचिः

TBD.