Table of Contents

<<1-1-65 —- 1-1-67>>

1-1-66 तस्मिन्निति निर्दिष्टे पूर्वस्य

प्रथमावृत्तिः

TBD.

काशिका

तस्मिनिति सप्तम्यर्थनिर्देशे पूर्वस्यैव कार्यं भवति, नौत्तरस्य। इको यणचि 6-1-77दध्युदकम्। मध्विदम्। पचत्योदनम्। निर्दिष्टग्रहणम् आनन्तर्यार्थम्। अग्निचिदत्र इति व्यवहितस्य मा भूत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

16 सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम्..

बालमनोरमा

42 तस्मिन्निति निर्दिष्टे। `इको यणची'त्यत्र अचि इको यण् स्यादित्यवगतम्। तत्राऽचो वर्णान्तराधिकरणत्वं न संभवतीति सतिसप्तम्याश्रयणीया,-अचि सति इको यण् स्यादिति। तत्र व्यवहितेऽव्यवहिते च इको यण् प्राप्तः। ततश्च `समिध'मित्यत्र धकारल्यलहितेऽकारे सत्यरि मकारादिकारस्य यण् स्यात्। तथा अचि सति पूर्वस्य परस्य वा इको यण् प्राप्तः। ततश्च दध्युदकमित्यत्र इकारे अचि सति उकारस्य परस्यापि इको यण् स्यात्। तत्राऽव्यवहित एव अचि भवति न व्यवहिते, पूर्वस्यैव भवति न परस्येत्येतदर्थमिदमारभ्यते। तस्मिन्निति न तच्छब्दः स्वरूपपरः। तथा सति `तस्मिन्नणि च युष्माकास्माकौ' इत्यादावेव प्रवर्तेत, न त्विको यणचीत्यादौ। किन्तु इको यणचीत्यादिसूत्रगतस्याऽचीत्यादिसप्तम्यन्तपदस्य `तस्मिन्नि'त्यनुकरणम्। `इती'त्यनन्तरं `गम्येऽर्थे' इति शेषः। निरिति नैरन्तर्ये। दिशिरुच्चारणे। एवं च इको यणचि रायो हलीत्यादिसूत्रेषु इचि हलि इत्येवं सप्तम्यन्तपदगम्येऽर्तेऽकारादौ दध्यत्र सुध्युपास्य इत्यादिप्रयोगदशायां निर्दिष्टेऽव्यवहितोच्चारिते सति पूर्वस्य कार्यं भवति, न तु व्यवहितोच्चारिते नापि परस्येति फलितोऽर्थः। व्यवधान#ं च वर्णान्तरकृतमेव निषिध्यते, नतु कालकृतम्। `इको यणची'त्यादौ कालकृतव्यवधानस्य संहिताधिकारादेव निरासलाभात्, तत्र कालकृतव्यवधानस्याप्यनेनैव सूत्रेण निरासे संहिताधिकारस्य वैयथ्र्यापातात्। एवं च ये संहिताधिकारबहिर्भूताः `आनङृतो द्वन्द्वे' `देवताद्वन्द्वे च' इत्यादय उत्तरपदे परत आनङादिविधयस्ते सर्वे अगनाविष्णू इत्यग्नाविष्णू इत्याद्यवग्रहे कालव्यवधानेऽपि भवन्ति। एतत्सर्वमभिप्रेत्य पर्यवसन्नार्थमाह–सप्तमीनिर्देशेनेत्यादिना।–इति सूत्राक्षरानुयायी पन्थाः। `अतिशयने तम'बित्यत्र तु नेयं परिभाषा प्रवर्तते, सर्तम्यन्तातिशायनपदार्थस्य शब्दरूपत्वाभावेनाऽव्यवहितोच्चारितत्वरूपनिर्धिष्टत्वाऽसंभवात्। नचैवमपि `कर्तृकर्मणोः कृती'त्यत्रापि अस्याः परिभाषायाः प्रवृत्तौकर्तृषष्ठी कर्मणिषष्ठी च कृष्णस्य कृतिः जगतः कर्ता कृष्ण इत्यत्रैव स्यान्नतु `कृतिः कृष्णस्य' `कर्ता जगत' इत्यत्र इति वाच्यं, लक्ष्यानुरोधेन क्वचिदेवंजातीयकेष्वस्याः परिभाषाया अप्रवृत्तिरिति `श्नान्नलोप' इति सूत्रे भाष्ये प्रपञ्चितत्वात्। वस्तुतस्तु भाष्यानुसारेणाऽत्र सूत्रे निर्दिष्टग्रहणं संहिताधिकारसूत्रं च विफलमेवेति इको यणचीत्यत्र वक्ष्यते।

तत्त्वबोधिनी

36 तस्मिन्निति। सप्तम्यन्तानुकरणमिदम्। `निःशब्दो नैरन्तर्यपरः। दिशिरुच्चारणक्रियः। `अचि य'णित्युक्ते व्यवहितेऽव्यवहिते च सति प्राप्तमव्यवहिते एवेति, पूर्वस्य परस्य च प्राप्तं पूर्वस्यैवेति त नियम्यते। अव्यवहितस्येति तु फलितार्थकथनम्। पूर्वस्यैवेति किं ?, दध्युदकम्। अत्रोकारस्य मा भूत्। अव्यवहितस्यैवेति किम् ?, अग्निचिदत्र सोमसुदत्र। व्यवधानं चात्र वर्णकृतमेव निषिध्यते, नतु कालकृतम्। संहिताधिकाराज्ज्ञापकात्। अन्यथा निर्दिष्टग्रहणादेवाऽसंहितायां यणाद्यप्रसङ्गा\उfffद्त्क तेन संहिताधिकारेण ?। अतो व्याचष्टे-वर्णान्तरेणेति। एवं च संहिताधिकारबहिर्भूतविधयः कालव्यवायेपि संभवन्ति। तेनाग्नाविष्णू इत्यादाववग्रहेऽपि `अनाङृतो द्वन्द्वे' `देवताद्वन्द्वे चे'त्यादिना उत्तरपदे परतो विहिता आनङादयो भवन्तीति दिक्।

Satishji's सूत्र-सूचिः

TBD.