Table of Contents

<<7-2-66 —- 7-2-68>>

7-2-67 वस्वेकाजाद्घसाम्

प्रथमावृत्तिः

TBD.

काशिका

कृतद्विर्वचनानां धातूनाम् एकाचाम्, आकारान्तानाम्, घसेश्च वसौ इडागमो भवति। आदिवान्। आशिवान्। पेचिवान्। शेकिवान्। धात्वभ्यासयोः एकादेशे कृते एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एते एकाचो भवन्ति आत् ययिवान्। तस्थिवान्। घस् जक्षिवान्। सिद्धे सत्यारम्भो नियमार्थः, एकाजाद् घसाम् एव वसाविडागमो भवति न अनयेषाम्। बिभिद्वान्। चिच्छिद्वान्। बभूवान्। शिश्रिवान्। क्रादिनियमात् प्रतिषेधाभावाच् च य इट् प्रसक्तः स नियम्यते। आद्ग्रहणम् अनेकाज्ग्रहणार्थम्। द्विर्वचने हि कृते इटि हि सति आतो लोपेन भवितव्यम्। दरिद्रातेस् तु कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् इत्यामा भवितव्यम्। दरिद्राञ्चकार। अथाप्याम् न क्रियते तथापि च दरिद्रातेः आर्धधातुके लोपः सिद्धश्च प्रत्ययविधौ इति प्रागेव प्रत्ययोत्पत्तेराकारे लुप्ते इडागमस्य निमित्तं विहतं इति न इडागमो भवति, ददरिद्र्वानिति भवितव्यम्। घसेरपि यदि ग्रहणम् इह न क्रियते तदा द्विर्वचनात् परत्वाद् घसिभसोर्हलि च 6-4-100 इति उपधालोपे कृते द्विर्वचनम् एव न स्यात्, अनच्कत्वात्। इह तु घसिग्रहणादुपधालोपम् अपि परत्वातिडागमो बाधते। तत्र कृते गमहनजनखनघसाम् 6-4-98 इति उपधालोपः। स च द्विर्वचने ऽचि 1-1-59 इति द्विर्वचने कर्तव्ये स्थानिवद् भवति, तेन जक्षिवानिति सिध्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

899 वस्वे। `वसु' इत्यविभक्तिको निर्देशः। तथा च व्याख्यास्यति– वसोरिति। नित्यत्वाद्द्वित्वे कृते एकाच्त्वमेव नेति कथमिट् स्यादित्यत आह- - कृतद्विर्वचनानामेकाचामिति। कृतेऽपि द्वित्वे एकाच एव ये अवशिष्य्नते तेषामित्यर्थः। `नेड्वशि कृती'ति निषेधं बाधित्वा क्रादिनियमात्सर्वत्र प्राप्तस्य इटो नियमोऽयमित्याह– नान्येषामिति। आदिवानिति। अद भक्षणे। द्वित्वहलादिसेषाऽभ्यासदीर्घसवर्णदीर्घेषु कृतेषु कृतद्वित्वोऽप्यमेकाजेवेति इट्। आरिवानिति। `ऋ गतौ' `ऋच्छत्यृ?ता'मिति गुणे कृते पूर्वत्कृतेषु अयमेकाच्। दादिवानिति। डु दाञ् दाने। कृते द्वित्वे नाऽयमेकाच्। इण्निमित्तश्चाऽऽतो लोपो नाऽसति तस्मिन् भवतीति अनेकाजर्थमाद्ग्रहणम्। जक्षिवानिति। `लिट\उfffज्ञतरस्या'मित्यदेर्घस्लादेशः। द्वित्वे कृते नायमेकाजिति घसिग्रहणम्।

तत्त्वबोधिनी

739 वस्वे। `वस्वि' त्यविभक्तिको निर्देशस्तथा च व्याख्यास्यते–वसोरिति। नित्यत्वाद्द्वित्वे कृते एकाच्त्वमेव नेति कथमिट् स्यादित्यत आह- - कृतद्विर्वचनानामेकाचामिति। कृतेऽपि द्वित्वे एकाच एव ये अवशिष्यन्ते तेषामित्यर्थः। `नेड्वशि कृती'ति निषेधं बाधित्वा क्रादिनियमात्सर्वत्र प्राप्रस्येटो नियमोऽयमित्याह– नान्येषामिति। आदिवानिति। अद भक्षणे, द्वित्वहलादिशेषाभ्यासदीर्घसवर्णदीर्घेषु कृतेषु कृतद्वित्वोऽप्ययमेकाजेवेतीड्भवति। आरिवानिति। ऋ गतौ। `ऋच्छत्यृ?ता'मिति गुणे कृते द्वित्वादिष #उपूर्ववत्कृतेष्वयमप्येकाच्। ददिवानिति। डुदाञ् दाने। कृते द्वित्वे नायमेकाच्, इण्निमित्तश्चातो लोपो नाऽसति तस्मिन्भवतीत्यनेकाजर्थमाद्ग्रहणम्। जक्षिवानिति। `लिट\उfffज्ञतरस्या'मित्यदर्घस्लादेशः। द्वित्वे कृते नाऽयमेकाजिति घसिग्रहणम्। अत्र व्याचख्युः– द्वित्वात्पूर्वं परत्वात् `घसिभसोर्हली'त्युपधालोपः स्यात्त\उfffद्स्मश्च कृतेऽनच्कत्वाद्द्वित्वमेव न स्यात्। न चाऽस्य द्वित्वे कर्तव्ये `द्विर्वचनेऽची'त्यनेन स्थानिव्दभावो, निषेधो वा शङ्क्यः, द्वित्वनिमित्तस्याऽचोऽभावात्। ततश्च नाऽयं कृतद्विर्वचन एकाज्भवतीति घसिग्रहणं, तत्सामत्र्यात्तु परत्वादुपधालोपमिडागमो बाधते, कृते त्विडागमे `गमहने'त्युपधालोपस्तस्य चाऽज्निमित्तत्वेन स्थानिवत्त्वाद्द्वित्वम्। यद्वा `द्विर्वचनेऽची'ति निषेधपक्षे तूपधालोपात्प्रागेव द्वित्वं, पश्चादुपधालोपः `शासिवसिघसीनां चे'ति षत्वं चर्त्वं क्षः। `अभ्यासे चर्चे' त्यभ्यासघकारस्य जश्त्वमिति।

Satishji's सूत्र-सूचिः

Video

वृत्तिः कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् । The affix ‘वसुँ’ takes the augment ‘इट्’ only when preceded by one of the following verbal roots (and no other) - (i) any verbal root which even after reduplication contains only one vowel
(ii) any verbal root which ends in ‘आ’
(iii) the verbal root √घस् (घसॢँ अदने १. ८१२ as well as the substitute ‘घसॢँ’ which comes in place of अदँ भक्षणे २. १ by 2-4-40.)

Example continued from 7-2-13

जगम् + वस् As per 7-2-13 the affix ‘वस्’ would take the augment ‘इट्’ here, but the सूत्रम् 7-2-67 blocks the operation. Finally, the specific सूत्रम् 7-2-68 applies.

Example continued under 7-2-68