TBD.
गम हन विद विश इत्येतेषां धातूनां वसौ विभाषा इडागमो भवति। गम जग्मिवान्, जगन्वान्। मो नो धातोः 8-2-64 इति नकारः। हन जघ्निवान्, जघन्वान्। विद विविदिवान्, विविद्वान्। विश विविशिवान्, विविश्वान्। विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम्। ज्ञानार्थस्य तु नित्यं विविद्वानित्येव भवति। दृशेश्चेति वक्तव्यम्। ददृशिवान्, ददृश्वान्।
TBD.
–
–
742 जग्मिवानित्यादि। इट्पक्षे `गमहने'त्युपधालोपः।
वृत्तिः एभ्यो वसोरिड्वा । The affix ‘वसुँ’ optionally takes the augment ‘इट्’ when preceded by one of the following verbal roots – √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √विद् (विदॢँ लाभे ६. १६८) or √विश् (विशँ प्रवेशने ६. १६०). Note: विशिना साहचर्याद्विन्दतेर्ग्रहणम्। (from सिद्धान्तकौमुदी)।
Example continued from 7-2-67
जगम् + वस् As per 7-2-68, the affix ‘वस्’ optionally takes the augment ‘इट्’ here.
इट्-पक्षे Let us first consider the case where the augment ‘इट्’ is applied -
= जगम् + इट् वस् 7-2-68, 1-1-46
= जगम् + इवस् 1-3-3, 13-9
= जग् म् + इवस् 6-4-98
= जग्मिवस् । “जग्मिवस्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
इडभाव-पक्षे Let us now consider the case where the augment ‘इट्’ is not applied -
जगम् + वस्
Example continued under 8-2-65