TBD.
अत्ति अर्ति व्ययति इत्येतेषां थलि इडागमो भवति। आदिथ। आरिथ। विव्ययिथ। व्येञः न व्यो लिटि 6-1-46) इति आत्वप्रतिषेधः। अत्तिव्ययत्योः ऋतो भारद्वाजस्य (*7,2.63 इति नियमाद् विकल्पः। अर्त्तेरपि नित्यः प्रतिषेधः। अत्र इड्ग्रहणम् विस्पष्टार्थम्। विकल्पविधाने हि सति अत्तिव्ययतिग्रहणम् अनर्थकम्, प्रतिषेधविधाने च अर्तिग्रहणम् इति नित्यो ऽयं विधिः इड्ग्रहणम् अन्तरेण अपि शक्यते विज्ञातुम्।
TBD.
557 अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात्. आदिथ. अत्ता. अत्स्यति. अत्तु. अत्तात्. अत्ताम्. अदन्तु..
221 थलि तु क्रादिनियमप्राप्तस्य इटः `अचस्तास्व'दिति ऋदन्तत्वाद्भारद्वाजमतेऽपि निषेधे प्राप्ते– इडत्त्यर्ति। पञ्चम्यर्थे षष्ठी। `अचस्तास्व'दित्यत स्थलीत्यनुवर्तते। `विभाषा सृजिदृशो'रिति पूर्वसूत्रद्विभाषाग्रहणमस्वरितत्वान्नानुवर्तते। तदाह– अद् ऋ इत्यादिना। `आद्र्धधातुकस्ये'डित्यनुवृत्तौ पुनरिड्ग्रहणं तु `न वृद्ब्यश्चतुभ्र्यः' इत्यतो नेत्यनुवृत्तिनिवृत्तये इत्याहुः। आरिथेति। आरथुः। आरः। आर आरिव आरिम। क्रादिनियमादिट्। अरिष्यतीति। `ऋद्धनो'रिति इट्। ऋच्छतु। आच्र्छत्। अर्यादिति। `गुणोऽर्ती'ति गुणे रपरत्वमिति भावः। आर्षीदिति। सिचि वृद्धिः। `सर्तिशास्त्यर्तिभ्यश्चे'ति अङ् तु न, ततर् भौवादिकस्य ऋधातोर्न ग्रहममित्यनुपदमेवोक्तेरिति भावः। आरिष्यत्। `ऋद्धनोः स्ये' इति इट्। गृ घृ। अनिटौ। गरतीति। जगार। असंयोगादित्वात् `ऋतश्चे'ति गुणो न। जग्रतुः जग्रुः। क्रादिनियमेन इटि प्राप्ते `अचस्तास्व'दिति नेट्। ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट्। तदाह–जगर्थेति। जग्रथुः जग्र। जगार–जगर।जग्रिवेति। क्रादिनियमादिट्। जग्रिम। गर्ता। गरिष्यति। `ऋद्धनो'रितीट्। गरतु। अगरत्। गरेत्। रिङिति। आशीर्लिङि असंयोगादित्वात् `गुण#ओऽर्ती'ति गुणाऽभावे `रिङ् शयग्लिङ्क्षु' इति रिङित्यर्थः। ग्रियादिति। रीङि प्रकृते रिङ्?विधेर्न दीर्घः। अगार्षीदिति। सिचि वृद्धौ रपरत्वम्। अगार्ष्टाम्। अगरिष्यत्। `ऋद्धनोः'इति इट्। घृधातोस्तु भौवादिकस्य घृतं घर्मः घृणा इत्यत्रैव प्रयोगो नान्यत्रेति `तृज्वत्क्रोष्टु'रिति सूत्रे भाष्ये स्पष्टम्। ध्वृ इति। हूच्र्छनं कुटिलीभवनम्। ध्वरति। दध्वार। `ऋतश्चे'ति गुणः। दध्वरतुः दध्वरुः। थलि `अचस्तास्व'दिति क्रादिनियमप्राप्त इण्न। ऋदन्तत्वाच्च भारद्वाजमतेऽपि नेट्। दध्वर्थ दध्वरथुः दध्वर। दध्वार-दध्वर दध्वरिव दध्वरिम। क्रादिनियमादिट्। ध्वर्ता। `ऋद्धनो'रिति इट्–ध्वरिष्यति। ध्वरतु।अध्वरत्। ध्वरेत्। आशीर्लिङि `गुणोऽर्ती'ति गुणः। ध्वर्यात्। अध्वार्षीत्। अध्वरिष्यत्। रुआउ गतौ। अनिट्। रुआवति। सुरुआआव-सुरुआव। सुरुआउवेति। क्रादित्वान्नेट्। सुरुआउमेत्यपि ज्ञेयम्। रुआओता। रुआओष्यति। रुआवतु अरुआवत। रुआवेत्। रुआऊयादिति। `अकृत्सार्वधातुकयो'रिति दीर्घ इति भावः। लुङि विशेषमाह–णिश्रीति चङिति। `चङी'ति द्वित्वमित्यपि द्रष्टव्यम्। ननु असुरुआ अ त् इति स्थिते रेफादुत्तरस्य उकारस्य `सार्वधातुकाद्र्धधातुकयो'रिति गुणस्य चङ्निमित्तस्य ङित्त्वान्निषेधेऽपि उवङपेक्षया परत्वात्तिपं निमित्तीकृत्य रेफादुकारस्य लघूपधगुणः स्यादित्यत आह लघूपधगुणादन्तरङ्गत्वादुवङिति। बहिर्भूततिबपेक्षत्वनाल्लघूपधगुणो बहिरङ्गः। अन्तर्गतचङपेक्षत्वादुवङन्तरङ्गः। अतौवङेव भवति। परादन्तरङ्गस्य बलवत्त्वादिति भावः। असुरुआउवदिति। अरुआओष्यत्। षु प्रसवेति। अत्र प्रसवशब्दस्य गर्भमोचनपरत्वभ्रमं वारयति–प्रसवोऽभ्यनुज्ञानमिति। `ॐ प्रणयेति ब्राहृआ प्रसौती'त्यादौ तथा दर्शनादिति भावः। षोपदेशोऽयम्। शपि उवङं बाधित्वा परत्वात्सार्वधातुकयोरिति गुणः। सवति। सुषाव। अतुसादौ कित्त्वाद्गुणाऽभावे उवङ्। सुषुवतुः सुषुवुः। भारद्वाजनियमात्थलि वेट्। तदाह– सुषविथ सुषोथेति। अकित्त्वाद्गुण इति भावः। सुषुवथुः सुषुव। सुषाव-सुषव।वमयोस्तु क्रादिनियमान्नित्यमिट्। तदाह–सुषुविवेति। कित्त्वाद्गुणाऽभावे उवङ्। सोतेति। सोष्यति। सवतु। असवत्। सवेत्। सूयात्।
193 नित्यमिट् स्यादिति। `विभाषा सृजिदृशो'रित्यतो विभाषा नानुवर्तत इति भावः। ध्वृ हूर्छने। हूर्झनं– कौटिल्यम्। सृ गतौ। यद्यपि सामान्येन गतिरुक्ता तथापि द्रवद्द्रव्यस्यैव गतिरिह ज्ञेया। रुआवति घृतम्।
TBD.