TBD.
नियमार्थम् इदम्। स्नुक्रमोः आर्धधातुकस्य वलादेः इडागमो भवति, न चेत् स्नुक्रमी आत्मनेपदस्य निमित्तं भवतः। क्व च तावात्मनेपदस्य निमित्तम्? यत्र आत्मनेपदं तदाश्रयं भवति, भावकर्मकर्मकर्तृकर्मव्यतिहाराः क्रमेर् वृत्त्यादयश्च। तेन अयम् सत्यात्मनेपदे प्रतिषेधो भवति न असति इति। प्रतिषेधफलं च इदं सूत्रम्। स्नुक्रमोरुदित्वातिट् सिद्ध एव। प्रस्नविता। प्रस्नवितुम्। प्रस्नवितव्यम्। प्रक्रमिता। प्रक्रमितुम्। प्रक्रमितव्यम्। अनात्मनेपदनिमित्ते इति किम्? प्रस्नोषीष्ट। प्रक्रंसीष्ट। प्रस्नोष्यते। प्रक्रंस्यते। प्रसुस्नूषिष्यते। प्रचिक्रंसिष्यते। सर्वत्र एव अत्र स्नैतिः क्रमिश्च आत्मनेपदस्य निमित्तम्। सनन्तादपि पूर्ववत्सनः 1-3-62 इति आत्मनेपदं विधीयते। निमित्तग्रहणं किम्? सीयुडादेस् तत्परपरस्य च प्रतिषेधार्थम्। इह तु प्रस्नवितेवाचरति इति प्रस्नवित्रीयते इति क्यङतम् आत्मनेपदस्य निमित्तम्, न स्नौतिः। क्रमेस् तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः। प्रक्रन्ता। उपक्रन्ता। कर्तरि इति किम्? प्रक्रमितव्यम्। उपक्रमितव्यम्। आत्मनेपदविषयातिति किम्? निष्ट्रमितिआ। स्नौतेः सनि किति च प्रत्यये श्र्युकः किति 7-2-11, सनि ग्रहगुहोश्च 7-2-12 इत्येव प्रतिषेधो भवति। प्रसुस्नूषति। प्रस्नुतः। प्रस्नुतवान्।
TBD.
–
163 स्नुक्रमोः। पञ्चम्यर्थे षष्ठी। आत्मनेपदनिमित्तस्याऽभावः– अनात्मनेपदनिमित्तम्। अर्थाभावेऽव्ययीभावेन सह नञ्तत्पुरुषो विकल्प्यत इत्युक्तेः समासः। आत्मनेपदनिमित्ताऽभावे सति स्नुक्रम्भ्यां परस्य वलाद्याद्र्धधातुकस्य इट् स्यादित्यर्थः। स्नुक्रमोरनुदात्तोपदेशानन्तर्भावदिटि सिद्धे वचनमिदं नियमार्थमित्याह–अत्रैवेडिति। एवं च भावकर्मलकारेषु इण्न भवति। उपस्नोष्यते जलेन। बावलकारोऽयम्। उपक्रस्यते। कर्मणि लुट्। स्यः। `प्रस्नुत'मित्यत्र तु श्र्युकः कितीति निषेधान्नेट्, `आद्र्धधातुकस्येड्वलादे'रितीड्विधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामथ्र्यात्। `स्नुक्रमोरनात्मनेपदे' इति तु न सूत्रितम्, आत्मनेपदभिन्ने परस्मैपदे परे इत्यर्थे चिक्रमिषिष्यतीत्यसिद्देः, स्येन व्यवधानात्। आत्मनेपदे परे नेडित्र्थे तु प्रचिक्रंसिष्यत इत्यसिद्धिः, अतो निमित्तग्रहणमित्यलम्। अक्रमीदिति। `ह्म्यन्ते'ति न वृद्धिः। इति क्रम्यन्ताः परस्मैपदिनो गातः। रेवत्यन्ता इति। `रेवृ प्लवगता'वित्येतत्पर्यन्ता इत्यर्थः। अयपयेत्यारभ्य शल चलने इत्यतः प्राग यकारान्ताः।
137 स्नुक्रमो। अनात्मनेपदनिमित्ते इति। आत्मनेपदनिमित्ताऽभावे इत्यर्थः। अन्ये तु द्विवचनस्थाने व्यत्ययेन एकवचनम्, अनात्मनेपदनिमित्तयोरित्यर्थ इत्याहुः। उभयोरपि भावकर्मकर्मव्यतिहारास्तङो निमित्तं, क्रमेस्तु वृत्तिसर्गादयोऽपीति बोध्यम्. स्नुकर्मोरुदात्तत्वदिटि सिद्धे नियमार्थोऽमित्याह– अत्रैवेडिति। अनात्मनेपदेति किम् ?। `उपस्नोष्यते जलेन'। `उपक्रंस्यते'। `आक्रंस्यते'। निमित्त इति किम् ? स्नौतीति स्नविता, स इवाचरति स्नवित्रीयते। इह क्यङ् आत्मनेपदनिमित्तं न तु स्नौतिरित्याहुः।
TBD.