Table of Contents

<<7-2-34 —- 7-2-36>>

7-2-35 आर्धधातुकस्य इड् वलादेः

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि इति निवृत्तम्। आर्धधातुकस्य वलादेरिडागमो भवति। लविता। लवितुम्। लवितव्यम्। पविता। पवितुम्। पवितव्यम्। आर्धधातुकस्य इति किम्? आस्ते। शेते। वस्ते। रुदादिभ्यः सार्वधातुके 7-2-56 इत्येतस्मिन् नियमार्थे वज्ञायमाने प्रतिपत्तिगौरवम् भवति इति आर्धधातुकग्रहणं क्रियते। वलादेः इति किम्? लव्यम्। पव्यम्। लवनीयम्। पवनीयम्। इटिति वर्तमाने पुनः इड्ग्रहणं प्रतिषेधनिवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

403 वलादेरार्धधातुरस्येडागमः स्यात्. बभूविथ. बभूवथुः. बभूव. बभूव. बभूविव. बभूविम.

बालमनोरमा

33 सिपस्थलि बभू थ इति स्थिते –आद्र्धधातुस्येट्। `नेड्वशि कृती'त्यस्मादनुवृत्त्यैव सिद्धेरिहेड्ग्रहणं न कार्यमिति `नेड्वशी'ति सूत्रभाष्ये प्रत्याख्यातम्। आद्र्धधातुकस्येति किम् ?। जुगुप्सति। अत्र `गुप्तिज्?किद्भ्य' इति सनो धातोरित्यधिकृत्य विहितत्वाऽभावान्नाद्र्धधातुकत्वम्। बभूविथेति। सिपस्थलि तस्य इडागमे वुगादि पूर्ववत्। बभूवथुरिति। थसोऽथुसादेशे वुगादि पूर्ववत्। सकारस्य रुत्वविसर्गौ। बभूवेति। मध्यमपुरुषबहुवचनस्य अकारः सर्वादेश इति `परस्मैपदानां णलतु'सित्यत्रोक्तम्। वुगादि पूर्ववत्। बभूवेति। मिपो णलि वुगादि पूर्ववत्। बभूविवेति। वसो वादेशे वलादित्वादिडागमे वुगादि पूर्ववत्। नचात्र `श्र्युकः किती'तीडागमनिषेधः शङ्क्यः, `कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी'ति क्रादिनियमादिटसिद्धेः। बभूविमेति। मसो मादेशे इडागमे वुगादि पूर्ववत्। इति लिट्प्रक्रिया।

तत्त्वबोधिनी

27 `नेड्वशि कृती'त्यत इडित्यनुवर्तमाने पुनरिड्ग्रहणं निषेधसंबद्धस्येटो निवृत्त्यर्थम्। वस्तुतस्तु `समर्थानां प्रथमाद्वे'त्यनुवृत्तस्य पदत्रयसय् मध्ये `प्राग्दिश्' इत्यनन्तरं `समर्थानां प्रथमा'दिति निवृत्तं, `वे'तित्वनुवर्तत इति व्याख्यानमिव `नेति निवृत्तम्, इडित्यनुवत्र्तते' इति व्याख्यातुं शक्यत्वादिड्ग्रहणं त्युक्तं शक्यम्, तथापि स्पष्टप्रतिपत्त्यर्थं तत्स्वीकृतमिति बोध्यम्। आद्र्धधातुकस्येति किम् ?। आस्ते, शेते। वलादेः किम् ?। एधनीयम्। ननु `रुदादिभ्यः सार्वधातुके' इत्यनेन सार्वधातुकस्य यदीड्भवति तर्हि रुदादिभ्य एवे'ति नियमादास्ते शेत इत्यत्र इड्न भवेदित्याद्र्धधातुकस्येति ग्रहणं व्यर्थम्। न च रुदादिभ्यः सार्वधातुक एवेति विपरीतनियमाद्रोदितेत्यत्र न स्यात्, आस्ते शेत इत्यत्र तु स्यादिति शङ्क्यम्। `रुदविदमुषग्रहिस्वपिप्रच्छः संश्चे'ति क्त्वाप्रत्यये औपदेशिककित्त्वस्य सुस्थत्वात्। `हलन्तञ्चे'ति झलादिसनः कित्त्वाच्च। तस्माद्विपरीतनियमाऽसंभवेनाद्र्धदातुकग्रहणं व्यर्थमेव। ननु तद्ग्रहणाऽभावे वलादेरित्यस्य– अङ्गस्येति यदधिकृतं तद्विशेष्यं स्यात्, ततश्च अडाटाविवेडागमोऽतादवस्थ्यात्, अकृते।?पि तद्ग्रहणेऽङ्गस्य यो वलादिरङ्गनिमित्तं तस्येडिति व्याख्यानादिष्टसिद्धेश्च। तस्मादुभयथापि व्याख्यानेशरणीकर्तव्ये `आद्र्धधातुकस्ये'त्यस्य त्याग एव श्रेयान्। नन्वेवं `केशवः', `अङ्गना' `वृक्षत्व'मित्यत्रेट् स्यात्। `ऋत इद्धातो'रित्यतो धातोरित्यनुवर्तनादधातोः परस्य न भवतीति परिहारसंभवेऽपि लूभ्यां पूभ्यामित्यत्र दुर्वार एवेडागमः। विहितविशेषणेनाप्ययं वारयितुमशक्यः, क्विबन्ता धातुत्वं न जहतीति लूभ्यां लूभिरित्यत्र ब्यामादेर्धातोर्विहितत्वाऽनपायात्। किंच `जुगुप्सते' इत्यादौ `गुप्तिज्किद्भ्यः' इति धातोर्विहितस्य सन इड् दुर्वारः स्यात्। न चेह धातोः परत्र विहितस्य वलादेरिति व्याख्यानलाभाय धातोरिति पञ्चम्यन्तमपेक्षितं, तच्च दुर्लभम्, `ऋत इद्धातो'रित्यत्र धातोरित्यस्य षष्ठ\उfffद्न्तत्वात्, तथा च वृक्षत्वमित्यादावपीडागमप्रसङ्ग इति वाच्यं, शब्दाधिकारपक्षे स्वरितत्वेन तत्सदृशशब्दोऽनुमीयत इति पञ्चम्यन्तलाभात्। अस्तु वा षष्ठ\उfffद्न्तत्वं, विहितत्वं षष्ठ\उfffद्र्थ इति व्याख्यायामिष्टसिद्धः। तस्माज्जुगुप्सत इत्यादावतिप्रसङ्गवारणार्थमाद्र्धधातुकस्यति ग्रहणम्। केचित्तु– - धातोरित्युच्चार्य विहितो यः प्रत्ययस्तस्य#एडिति यदि व्याख्यायेत तदा लूभ्यां जुगुप्सत इत्यत्रातिप्रसङ्गाऽभावादाद्र्धधातुकस्येति व्यर्थमित्याहुः। बभूविवेति। न चाऽत्र `श्र्युकः किती'तीण्निषेधे वुगागमोऽपि न स्यादिति शङ्क्यं, क्रादिनियमादिटः प्रवृत्तेः॥

Satishji's सूत्र-सूचिः

वृत्ति: वलादेरार्धधातुकस्येडागमः स्यात् । An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment इट्।