TBD.
ग्रहः उत्तरस्य इटः अलिटि दीर्घो भवति। ग्रहीता। ग्रहीतुम्। ग्रहीतव्यम्। अलिटि इति किम्? जगृहिव। जगृहिम्। प्रकृतस्येटो दीर्घत्वमिदम्, चिण्वदिटो न भवति। ग्राहिता। ह्राहिष्यते।
TBD.
696
596 ग्रहोऽलिटि दीर्घः। `ग्रहट इति दिग्योगे पञ्चमी। `आद्र्धधातुकस्येट्' इत्यत इडित्यनुवृत्तं षष्ठ\उfffद्न्तं विपरिणम्यते, `एकाच उपदेशेऽनुदात्ता' दित्यत एकाच इति च। तदाह –एकाच इत्यादि। एकाचः किम ?। यङ्लुकि माभूत्। जाग्रहिता। विहितस्येति किम् ?। ग्रहितम्। णिलोपे कृते ग्रहधातोः परत्वेऽपि विहतत्वाऽभावादिटो न दीर्घः। न च णिलोपस्य स्थानिवत्त्वान्न ग्रहधातोः पर इडिति वाच्यं, दीर्घकित्त्वात्संप्रसारणमिति भावः। लिङस्तङ्याह– ग्रहीषीष्टेति। `ग्रहोऽलिटी' ति दीर्घः। `न लिङी'ति इटो दीर्घनिषेधस्तु न, तत्र `वृतट इत्यनुवृत्तेः। अग्रहीष्टामिति। `ग्रहोऽलिटी'ति दीर्घः। अग्रहीषुः। अग्रहीरित्यादि। लुङस्तङ्याह- - अग्रहीष्टेति। `ग्रहोऽलिटी'ति दीर्घः। अग्रहीषतेति। अग्रहीष्ठा इत्यादि सुगमम्। इति क्र्यादयः। तिङन्ते लकारार्थप्रक्रिया।\र्\नथ लकारार्थप्रक्रिया निरूप्यते।
490 ग्रहिषीष्टेति। `वृ?त' इत्यनुवृत्ते `र्न लिङी'ति दीर्घनिषेधो न प्रवर्तते। अग्रहीषातामिति। लुङ्। आत्मनेपदद्विवचनम्।\र्\निति तत्त्वबोधिन्याम् क्र्यादयः।
वृत्ति: एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि । When prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.
उदाहरणम् – ग्रहीष्यति/ग्रहीष्यते derived from √ग्रह् (ग्रहँ उपादाने ९. ७१). विवक्षा is लृँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।