TBD.
श्रि इत्येतस्य उगन्तानां च किति प्रत्यये परतः इडागमो न भवति। श्रि श्रित्वा। श्रितः। श्रितवान्। उगन्तानां चयुत्वा। युतः। युतवान्। लूत्वा। लूनः। लूनवान्। वृत्वा। वृतः। वृतवान्। तीर्त्वा। वीर्णः। तीर्णवान्। श्र्युकः इति किम्? विदितः। किति इति किम्? श्रयिता। श्रयितुम्। श्रयितव्यम्। केचिदत्र द्विककारनिर्देशेन गकारप्रश्लेषं वर्नयन्ति, भूष्णुः इत्येवं यथा स्यात्। सौत्रत्वाच् च निर्देशस्य श्र्युकः किति इत्यत्र चर्त्वस्य असिद्धत्वमनाश्रित्य रोरुत्वं न कृतम् विसर्जनीयश्च कृतः इति। ग्लाजिस्थश्च क्ष्नुः 3-2-139 इत्यत्र स्था आ इत्याकारप्रश्लेषेण स्थास्नोः सिद्धत्वान् न किंचिदेतत्। उपदेशे इत्येव, तीर्ण इत्यत्र अपि यथा स्यात्। इत्वे हि कृते रपरत्वे चन स्यात्। मा भूदेवम्। इट् सनि वा 7-2-41) इति विकल्पे विहिते यस्य विभाषा (*7,2.15 इति निष्ठायां प्रतिषेधो भविष्यति? कस्य पुनः सा विभाषा? ऋ\उ0304तः। यद्येवम् इत्वे हि कृते न अयम् ऋ\उ0304करान्तो भविष्यति? स्थानिवद्भावाद् भविष्यति। अनल्विधौ स्थानिवद्भावः, अल्विधिश्चायम्? तस्मादनुवर्तयितव्यम् उपदेशे इति। तथा च सति जागरितः, जागरितवानित्यत्र अपि प्राप्नोति, तदर्थम् एकाचः इत्यनुवर्तयितव्यम्। ऊर्णोतेस्तु वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्। आमश्च प्रतिषेधार्थम् एकाचश्चेडुपग्रहात्। प्रोर्णुतः। प्रोर्णुतवान्।
TBD.
653 तुद व्यथने.. 1..
218 अत्र इण्निषेधं शङ्कितुमाह– श्र्युकः क्किति। श्रिश्च उक् चेति समाहारद्वन्द्वात् षष्ठी। उक् प्रत्याहारः। अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणतम् उका विशेष्यते। तदन्तविधिः। `एकाच उपदेशे'इत्यत इत्यनुवृत्तमिगन्तेऽन्वेति। `नेड्वशि कृती'त्यतो नेडिति। क्कितीति सप्तमी षष्ठ\उfffद्र्थे। गच् कच् क्कौ, तौ इतौ यस्येति विग्रहः। गकारस्य चर्त्वेन निर्देशः। तदाह– श्रिञ एकाच इत्यादिना। गकारप्रश्लेषः किम् ?। भूष्णुः। `ग्लाजिस्थश्चग्स्नु'रिति चकाराद्भूधातोर्ग्स्नुः। तस्य गित्त्वादिण्न। कित्त्वे तु स्थास्नुरित्यत्र `घुमास्थे'ति ईत् स्यात्। इण्न स्यादित्यनन्तरम्– अनेन निषेधे प्राप्ते इत्यन्वयः। नन्वियं शङ्का न युज्यते, `श्रयुकः क्किती'ति निषेधं बाधित्वा परत्वात् `स्वरतिसूती'ति विकल्पस्य प्राप्तेरित्यत आह–परमपीत्यादि, सामथ्र्यादित्यन्तम्। पुरस्तात्प्रतिषेधकाण्डारम्भसामथ्र्यात्परमपि स्वरत्यादिविकल्पं बाधित्वा अनेन निषेधे प्राप्ते इत्यन्वयः। `आद्र्धधातुकस्ये'डित्यादिविधिकाण्डात्प्रागेव `नेड्वशि कृती'त्यादि प्रतिषेधकाण्डारम्भसामथ्र्याद`त्स्वरती'ति विकल्पोऽप्यनेन बाध्यते इत्यर्थः। परमपीत्यादिः, प्राप्ते इत्यन्तः शङ्काग्रन्थः। परिहरति- - क्रादिनियमान्नित्यमिडिति। प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एवेत्युक्तत्वादिति भावः। लुटि–स्वरिता स्वर्ता। लृटि स्ये `स्वरती'तिविकल्पं निरस्यति– परत्वादिति। स्वरतु। अस्वरत्। स्वरेत्। स्वर्यादिति। आशीर्लिङि `गुणोऽर्तिसंयोगाद्यो'रिति गुणः। अस्वारीदिति। `स्वरती'तीट्पक्षे वृद्धिरिति भावः। अस्वार्षीदिति। इडभावे `सिचि वृद्धि'रिति वृद्धिरिति भावः। स्मृचिन्तायामिति। अयमप्यनिट्। स्मरति। लिटि `ऋतश्चे'ति कित्यपि गुणः। णलि तु गुणे उपधावृद्धिः। सस्मार सस्मरतुः सस्मरुः। ऋदन्तत्वाद्भारद्वाजमतेऽपि क्रादिनियमप्राप्तस्य इटस्थलि नित्यनिषेधः। सस्मर्थ सस्मरथुः सस्मर। सस्मार–सस्मर सस्मरिव सस्मरिम। स्मर्ता। लृटि स्ये `ऋद्धनो'रितीट्–स्मरिष्यति। स्मरतु। अस्मरत्। स्मरेत्। आशीर्लिङ `गुणोऽर्ती'ति गुणः–स्मर्यात्। लुङि सिचि वृद्धौ रपरत्वम्–अस्मार्षीत्। अस्मरष्यत्। द्वृ संवरणे इति।अयमपि स्मृधातुवत्। [अस्यैव द्वारमित्यादि]। सृ गताविति। ऋदन्तोऽयमनिट्। सरति। लिटि संयोगादित्वाऽभावादृतश्चेति गुणो न। ससार सरुआतुः। क्रादत्वान्नेडिति। सृधातोः क्राद#इस्थत्वादिति भावः। ससर्थेति। क्रादित्वात्थल्यपि नित्यं निषेध इति भावः। सरुआथुः सरुआ।ससार ससार ससृव ससृम। इत्यपि ज्ञेयम्। सर्ता। लृटि `ऋद्धनो'रितीट्–सरिष्यति। सरतु। असरत्। सरेत्। आशीर्लिङि संयोगादित्वाऽभावात् `गुणोऽर्ती'ति न गुणः। किंतु `रिङ् शयग्लिङ्क्षु' इति रिङित्याह– रिङिति। रिउआयादिति। रीङि प्रकृतेरिङ्?विधिसामथ्र्यान्न दीर्घ इति भावः। असार्षीदिति। सिचि वृद्धौ रपरत्वम्।
190 श्र्युकः किति। `एकाच उपदेशे' इत्यत एकाच इत्यनुवर्तते। तच्च उको विशेषणमित्याह– एकाच उगन्तादिति। श्रितः। श्रितवान्?। श्रित्वा। भूतः। भूत्वा। भूतिः। गित्युदाहरणं– भूष्णुः। `ग्लाजिस्थश्चे'ति ग्स्नुः। स च गिद्भवति न कित्। स्थास्नुरित्यत्र `घुमास्थे'तीत्त्वप्रसङ्गात्। एकाच इति किम् ?। जागरितः। जागरितवान्। ऊर्णोतेस्तु नुवद्भावे–ऊर्णुतः। ऊर्णुतवानिति सिध्यति। उगन्तात्किम् ?। शयितः। शयितवान्। पुरस्तादित्यादि। `आद्र्धधातुकस्येड्वलादे'रित्यादि विधिकाण्डात्प्रागेव `नेज्वशि कृती'त्यादिप्रतिषेधकाण्डारम्भसामथ्र्यादित्यर्थः। निषेधे प्राप्ते इति। स्वृतः। सूतः। धूत इत्यादौ यथेति भावः। सृ गतौ। सरति। सरिष्यति।
वृत्तिः श्रिञ एकाच उगन्ताच्च गित्कितोरिण् न । An affix which is either a गित् (has गकार: as a इत्) or कित् (has ककार: as a इत्) does not take the augment इट् when following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or any verbal root which ends in a उक् letter.
Example continued from 8-2-42
कॄ + त 7-2-11 stops 7-2-35 and 1-1-5 stops 7-3-84
= किर् + त 7-1-100, 1-1-51
= किर् + न 8-2-42
= कीर् + न 8-2-77
= कीर्ण 8-4-1. “कीर्ण” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.