Table of Contents

<<7-2-11 —- 7-2-13>>

7-2-12 सनि ग्रहगुहोश् च

प्रथमावृत्तिः

TBD.

काशिका

ग्रह गुह इत्येतयोः उगन्तानां च सनि प्रत्यये परतः इडागमो न भवति। जिघृक्षति। जुघुक्षति। उगन्तानां च रुरूषति। लुलूषति। सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूउर्णुभरज्ञपि सनाम् 7-2-49 इति विकल्पविधानात् श्रयतिरत्र न अनुकृस्यते। ग्रहेर् नित्यं प्राप्तः। गुहेः ऊदित्वाद् विकल्पः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

713

बालमनोरमा

437 सनि ग्रहगुहोश्च। चकारात् `श्र्युकः किती'त्यत उक इत्यनुकृष्यते, न तु श्रयतिः, तस्य `सनीवन्तर्धे'ति विकल्पस्य वक्ष्यमाणत्वात्। `नेड्वशि कृती'त्यतो नेडिति स इति स्थिते सनः कित्त्वात् `ग्रहीज्ये'ति रेफस्य संप्रसारणमृकार इत्यर्थः। ननु गृह् स इति स्थिते हस्य ढत्वे भष्भावापेक्षया परत्वात्कत्वे सस्य षत्वे च कृते झषन्तत्वाऽभावे कथं भष्भाव इत्यत आह– सनः षत्वस्येति। कत्वस्याऽसिद्धत्वादित्येव सुचवचम्। जिघृक्षतीति। गृह् स इति स्थिते हकारादिणः परस्य षत्वं परत्वात् प्राप्तं, तस्याऽसिद्धत्वात् हस्य ढत्वे भष्भावः, ततः कत्वे कात्परस्य षत्वमिति क्रम इतिभावः। गुहेः जुघुक्षतीत्युदाहार्यम्। उगन्तात् - - बुभूषति। अत्र `श्र्युकः किती'त्यनेन तु न सिध्यति, तत्र कित एव निषेधात्। परत्वादिडागमे `इको झ'लित्यस्याऽप्राप्तेः। स्पष्टं चेदं शब्देन्दुशेखरे। सुषुप्सतीति। सनः कित्त्वात् `वचिस्वपी'ति संप्रसारणं, लघूपधगुणाऽभावश्च।

तत्त्वबोधिनी

381 सनि ग्रहगुहोश्च। ग्रहेर्नित्यं, गुहेर्विकल्पेन प्राप्ते निषेधोऽयम्। सनः षत्वस्यासिद्धत्वाद्भष्भाव इति। रकुत्वस्याऽसिद्धत्वाद्भष्भाव इत्येव सुवचम्। केचित्तु ढत्वे सति भष्भाव इत्यध्यहारेण योजयन्ति। तथा च जगृह्? स इति स्थिते इणः परत्वेन सस्य षत्वं प्राप्तं,तस्याऽसिद्धत्वाड्ढत्वे भष्भावः। ततश्च कत्वे कवर्गात्परस्य षत्वमिति विधिक्रमः। अन्ये तु षत्वे ढत्वे च कृते पश्चाद्भष्भावे कर्तव्ये सकारपरत्वाऽभावाद्भष्भावो न स्यादित्याशङ्कायां सनः षत्वस्याऽसिद्धत्वादिति ग्रन्थः प्रवृत्त इति कार्याऽसिद्धपक्षावलम्बनेन व्याचक्षते। जिघृक्षतीति। गुहेर्जुघुक्षति। सूत्रे चकारात् `श्र्युकः किती' त्यत उक इत्यनुकृष्यते। उगन्तात्- बुभूषति। लुलूषति। श्रयतिस्तु नाऽनुकृष्यते, तस्य `सनीवन्तर्धे'ति विकल्पविधानात्।

Satishji's सूत्र-सूचिः

वृत्तिः ग्रहेर्गुहेरुगन्ताच्च सन इण्न स्यात् । The affix सन् does not get the augment इट्, when following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) or √गुह् (गुहूँ संवरणे १. १०४३) or any verbal root ending in a उक् letter.

उदाहरणम् – जिघृक्षति/जिघृक्षते is a desiderative form derived from √ग्रह् (ग्रहँ उपादाने ९. ७१). The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

ग्रह् + सन् 3-1-7
= ग्रह् + स 1-3-3, 1-3-9. Note: 7-2-12 stops 7-2-35

Example continued under 1-2-8