TBD.
गोशदात् परं सर्वनामस्थानं णित् भवति। णित्कार्यं तत्र भवति इत्यर्थः। गौः, गावौ, गावः। तपरकरणं किम्? चित्रगुः। शबलगुः। कथं हे चित्रगो, हे शबलगव इति? अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति सम्बुद्धिजसोर्गुने कृते णित्त्वं न भवति। अथ वा गोतः इति सम्बधलक्षणा षष्ठी, गोतः सम्बन्धि यत् सर्वनामस्थानम् इति। यच् च तदर्थस्यैकत्वादिषु सर्वनामस्थानं तद् गोः सर्वनामस्थानम् इत्युच्यते। चित्रगुशब्दात् तु सर्वनामस्थानं तदन्यपदार्थसैकत्वादिनाह। तपरकरणं तु निर्देशर्थम् एव। केचितोतो णितिति पठन्ति, द्योशब्दादपि यत् सर्वनामस्थानं विद्यते तदर्थम्। द्यौः, द्यावौ, द्यावः। गोतः इत्येतदेव तपरकरणनिर्देशातोकारान्तोपलक्षणं द्रष्टव्यम्। वर्णनिर्देशेषु हि तपरकरणं प्रसिद्धम्।
TBD.
214 ओकाराद्विहितं सर्वनामस्थानं णिद्वत्. गौः. गावौ. गावः..
282 गोतो णित्। `गोत' इति तपरकरणम्। `इतोऽत्सर्वनामस्थाने' इत्यतः `सर्वनामस्थाने' इत्यतः `सर्वनामस्थाने' इत्यनुवृत्तं प्रथमया विपरिणम्यते। तदाह– घोशब्दादित्यादिना। णिद्वत्स्यादिति। णिति परे यत्कार्यं तत्कार्यकारीत्यर्थः। गौरिति। णिद्वत्त्वे `अचो ञ्णिती'ति वृद्धिरौकारः। रुत्वविसर्गाविति भावः। गावौ गाव इति। णिद्वत्त्वे वृद्धिरावादेशश्चेति भावः। हे गौः। वृद्धौ एङः परत्वाऽभावान्नसंबुद्धिलोपः। अमि गो अम् इति स्थिते णिद्वत्त्वाद्वृद्धो प्राप्तायाम्-।
244 गोतो णित्। `इतोऽत्सर्वमाभस्थाने'इत्यतोऽनुवृत्तं सप्तम्यन्तं सर्वनामस्थानग्रहणं प्रथमया विपरिणम्यते, `णि'दित्यनेन समानाधिकरण्यात्तदाह— सर्वनामस्थानमिति। णित्कार्यकृत्स्यादिति। णिति परे पूर्वस्य यत्कार्यं तत्कारोतीत्यर्थः।